Ch-6-Sauhard Prakriteh Shobha Class-10-sanskrit- (Shemushi-2)
Ultimate NCERT Solutions for Ch-6-Sauhard Prakriteh Shobha
Updated Solution 2025-2026 Updated Solution 2025-2026
NCERT Solutions for Class 10 Sanskrit-Shemushi-2
(षष्ठ: पाठ: सौहार्द प्रकृते: शोभा)
( प्रश्न उत्तर, योग्यताविस्तार, भावविस्तार, विशेषण-विशेष्य, सन्धिं )
Ch-6-Sauhard Prakriteh Shobha
(NCERT Book)
अभ्यासः
1. एकपदेन उत्तरं लिखत।
(क) वनराजः कैः दुखस्थां प्राप्तः?
उत्तर: (क) तुच्छजीवैः।
(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तर: (ख) काकः।
(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तर: (ग) आदर्शच्छात्रः।
(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
उत्तर: (घ) गजः।
(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तर: (ङ) वराकान्।
2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत-
(क) निःसंशयं कः कृतान्तः मन्यते?
उत्तर: यः परैः पीड्यमानान् वित्रस्तान् जन्तून् न रक्षति सः पार्थिवरूपेण कृतान्तः मन्यते।
(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तर: बकः शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयितुं कथयति।
(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?
उत्तर: प्रकृतिमाता प्रविश्य वन्यजन्तून् मिलित्वा वनरक्षां कर्तुं कथयति।
(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तर: यदि राजा सम्यक् न भवति तदा प्रजा जलधौ नौरिव विप्लेवत्।
(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
उत्तर: मयूरः पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः भवति।
(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवन्ति?
उत्तर: अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्पराः भवन्ति।
(छ) अस्मिन् नाटके कति पात्राणि सन्ति?
उत्तर: अस्मिन् नाटके दश पात्राणि सन्ति।
3. रेखांकित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) सिंहः वानराभ्यां स्वरक्षायां असमर्थः एवासीत्।
(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तर: 3 प्रश्ननिर्माणं
प्रश्नानि –
(क) कस्याम्
(ख) केन
(ग) कस्मै
(घ) कस्याः
(ङ) काम्।
4. शुद्धकथनानां समक्षम् ‘आम्’ अशुद्धकथनानां च समक्षं ‘न’ इति लिखत-
उत्तर
(क) सिंहः आत्मानं तुदन्तं वानरं मारयति। न
(ख) का – का इति बकस्य ध्वनिः भवति। न
(ग) काकपिकयोः वर्णः कृष्णः भवति। आम्
(घ) गजः लघुकायः निर्बलः च भवति। न
(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते। आम्
(च) अन्योन्यसहयोगेन प्राणिनां लाभः जायते। आम्
5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
मञ्जूषा- स्थितप्रज्ञः, यथासमयम्, मेध्यामेध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः
(क) काकः मेध्यामेध्यभक्षकः भवति।
(ख) पिकः परभृत् अपि कथ्यते।
(ग) बकः अविचलः स्थितप्रज्ञः इव तिष्ठति।
(घ) मयूरः अहिभुक् इति नाम्नाऽपि ज्ञायते ।
(ङ) उलूकः आत्मश्लाघाहीनः पदनिर्लिप्तः चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते यथासमयम्|
6. वाच्यपरिवर्तनं कृत्वा लिखत-
उदाहरणम्- क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
क्रुद्धेन सिंहेन इतस्ततः धाव्यते गर्जयते च।
(क) त्वया सत्यं कथितम्।
(ख) सिंहः सर्वजन्तून् पृच्छति।
(ग) काकः पिकस्य संततिं पालयति।
(घ) मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते स्म।
(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
उत्तर- 6
(क) त्वम् सत्यं कथितवान्।
(ख) सिंहेन सर्वजन्तवः पृच्छ्यन्ते।
(ग) काकेन पिकस्य संततिः पाल्यते।
(घ) मयूरं विधाता एव पक्षिराजं वनराजं वा कृतवान्।
(ङ) सर्वे खगाः कमपि खगम् एव वनराजं कर्तुम् इच्छन्ति स्म।
(च) सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियताम्।
7. समासविग्रहं/समस्तपदं वा लिखत-
(क) तुच्छजीवै: ………|
(ख) पृक्षोपरि …………|
(ग) पक्षिणां सम्राट् …………. |
(घ) स्थिता प्रज्ञा यस्य सः ……….. ।
(ङ) अपूर्वम् ……………|
(च) व्याघ्रचित्रकौ ………… |
उत्तर: 7
समासविग्रहं समस्तपदं वा
(क) तुच्छाः जीवाः तैः। (समासविग्रहम्)
(ख) वृक्षस्य उपरि। (समासविग्रहम्)
(ग) पक्षिसम्राट्। (समस्तपदम्)
(घ) स्थितप्रज्ञः। (समस्तपदम्)
(ङ) न पूर्वम् इति। नञ् तत्पुरुषः समासः (समासविग्रह)
(च) व्याघ्रः च चित्रकः च। (समासविग्रहम्)
योग्यताविस्तारः
संसार में सभी का अपना-अपना महत्त्व है, सभी के अपने-अपने कार्य हैं, अपना-अपना योगदान है। हमें किसी कार्य को छोटा या बड़ा, तुच्छ या महान् नहीं समझना चाहिए। इसी प्रकार किसी भी प्राणी को छोटा या बड़ा नहीं समझना चाहिए। आपस में मिलजुलकर सौहार्दपूर्ण तरीके से जीवनयापन करने में ही प्रकृति का सौन्दर्य है। हमें आसपास के वातावरण तथा प्रकृति की सुन्दरता एवं स्वच्छता में सदैव सहयोग करना चाहिए, तभी ‘संसार में सभी सुखी हों’-हमारी ये कामनाएँ सार्थक एवं सफल हो सकती हैं।
