Ch-2-Patralekhanam, Class-10-sanskrit- (अभ्यासवान् भव:)
Ultimate NCERT Solutions for Ch-2-Patralekhanam
Updated Solution 2025-2026 Updated Solution 2025-2026
NCERT Solutions for Class 10 Sanskrit-(अभ्यासवान् भव:)
(द्वितीयः पाठः पत्रलेखनम्)
( अनौपचारिकम् व औपचारिकम् पत्र लेखन)
Ch-2-Patralekhanam
(NCERT Book)
क) अनौपचारिकम् पत्रम्
1. चौरितस्य स्यूतस्य प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्रं लिखत।
आरक्ष्यधिकारि-महोदय!
लाजपतनगर क्षेत्रम्
नवदेहली
विषयः– चौरितस्य स्यूतस्य प्राथमिक-सूचना।
श्रीमन्,
अनेन पत्रेण अहं भवते एतत् सूचयामि यत् ह्यः प्रातः एकादश-वादने रेलमैट्रोयानेन विश्वविद्यालयात् अहं लाजपतनगरम् अगच्छम्। मार्गे मम स्यूतं चोरितम् अभवत्। यस्मिन् द्विसहस्रं रूप्यकाणि, कार्यालयस्य परिचय-पत्रं मैट्रो चिटिकापत्रं मम आधार-परिचयपत्रं चासन्। स्यूतस्य वर्णः कृष्णः आसीत्। अहं प्रार्थये यत् यथाशीघ्रं मम स्यूतम् अन्वेष्य मां कृतार्थं करोतु भवान्।
सधन्यवादः
निवेदक:
अजयः
निवासस्थानम् …………..
दूरभाष-संख्या ……………
दिनाङ्कः …………..
2. चोरितायाः घटिकायाः प्राथमिक-सूचनार्थम् आरक्ष्यधिकारिणं प्रति पत्रं लिखत।
सेवायाम्
थानाध्यक्ष महोदयः
अशोक विहारम्
नवदेहली
विषयः-चोरितायाः घटिकायाः प्राथमिक-सूचनार्थम्
महोदय,
सविनयं निवेद्यते यदहम् अशोक विहारे निवसामि। अहं कुलाचीहंसराजविद्यालये पञ्चमकक्षायां पठामि। ह्यः विद्यालयात् बसयानेनआगमनकाले केनापि मम घटिका चोरिता। घटिकां विना मम सर्वा दिनचर्या अव्यवस्थिता अभवत्। मम विद्यार्थी जीवने प्रातः कालात् सायंकाल-पर्यन्तं घटिकायाः अत्यधिकं महत्वमस्ति।
महोदय, अस्मिन् सन्दर्भे सानुरोधं निवेदये यत् चोरितायाः घटिकायाः प्राथमिक-सूचना-प्रतिवेदनं स्वीकृत्य यथाशीघ्रं मम घटिकां अन्वेष्य मां कृतार्थं करोतु भवान्।
सधन्यवादः
निवेदकः
गणेशः
निवासस्थानम् …………..
अशोक विहारम् …………..
दूरभाष संख्या ……………
दिनाङ्कः 01/01/26
(ख) औपचारिकम् पत्रम्
1. विज्ञानविषयं प्राप्तुं प्राधानाचार्यं प्रति आवेदनपत्रम्।
सेवायाम्
प्रधानाचार्यमहोदय !
मीमांसाविद्यालयः
नवदेहली
विषयः-एकादशकक्षायां विज्ञानविषयग्रहणार्थं विशेषानुमतये निवेदनम्।
महोदय,
सविनयं निवेद्यते यदहमस्मिन् विद्यालये प्रथमकक्षातः पठामि। प्रतिवर्षमहम् उत्तमान् अङ्कान् प्राप्य कक्षायां प्रथमस्थानमेव अधिगच्छामि स्म। परमस्मिन् वर्षे परीक्षामध्ये एवाहम् अकस्मात् ज्वरग्रस्तः अभवम्। विज्ञानविषयस्य तु परीक्षाऽपि मया चिकित्सालयात् एव परीक्षाकेन्द्रं प्राप्य प्रदत्ता। फलतः मया आशानुकूलः परीक्षापरिणामः न प्राप्तः। विद्यालयनियमानुसारं विज्ञानविषयं ग्रहणाय प्रतिशतं केवलम् एकस्य एव अङ्कस्य न्यूनता अस्ति।
महोदय ! शैशवादेव मम हार्दिकी इच्छा जीवविज्ञाने शोधं कृत्वा वैज्ञानिकः भवितुमासीत्। पर यदि अहं विज्ञानविषये प्रवेशमेव प्राप्तुमसमर्थः भविष्यामि तदा कथमहं स्वकीयं स्वप्नं सार्थकं करिष्यामि। अतः मम करबद्धः अनुरोधः अस्ति। यन्मह्यं विज्ञानविषयं पठितुम् भवान् अनुमतिं प्रयच्छतु। एतदर्थम् अहं पुनः परीक्षणाय अपि सज्जः अस्मि।
आशासे यत् भवान् मम स्थितिमवगत्य मम विशेषानुरोधं स्वीकरिष्यति।
कृपाकाङ्क्षी
भवदाज्ञाकारी शिष्यः
2. अध्ययनं प्रति मातरं समाश्वासयितुं पुत्र्या लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत-
कुशलम्, प्रतियोगिताः, कुशलिनी, परिणामः, चिन्तिता, मतिम्, आनन्देन, करणीया, खेलप्रतियोगितासु, कालः
परीक्षाभवनतः
दिनाङ्कः ……….
पूज्यमातृचरणाः
प्रणतीनां शतम्।
अत्र अहं कुशलम्। आशासे भवती पितृमहोदयः च आनन्देन स्तः। मातः! अहं जानामि यद् भवती मम अर्धवार्षिक-परीक्षापरिणामकारणात् चिन्तिता अस्ति। अत्र चिन्ता न करणीया। प्रथमसत्रे तु अहं खेलप्रतियोगितासु रता आसम्। पठनाय तु कालः एव न आसीत् परम् अधुना तु सर्वाः प्रतियोगिताः समाप्ताः। अद्यारभ्य अहं केवलं पठने एव मतिम् विधास्यामि । आशासे वार्षिकपरीक्षायां मम परिणामः भवताम् आशानुकूलः भविष्यति। शेषं सर्वं कुशलम् भवत्याः चरणयोः प्रणामाः।
भवत्याः पुत्री
सुकन्या
3. जलसंरक्षणस्य महत्त्वं वर्णयतः मित्रं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः लिखत-
देशस्य, प्रयतमानाः, अपव्ययम्, विचारयति, जागरूकता, प्रयासः, जानीमः, जीवनम्, सह, अस्तु
छात्रावासतः
दिनाङ्कः 01/01/26
प्रिय मित्र!
सप्रेम नमोनमः,
अत्र कुशलं तत्र अस्तु । भवतः पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि यत् भवान् मित्रैः सह जलसंरक्षणप्रचारकार्ये रतोऽस्ति। एषः तु उत्तमः प्रयासः अस्ति। वयं सर्वे एव जानीमः यत् जीवने जलस्य महत्त्वं तु अतुलनीयम्। जलम् एवं जीवनम् इति वयं सर्वे जानीमः परं पुनरपि वयम् अस्य अपव्ययम् कुर्मः। अनेन आगामिकाले कियान् भीषणजलसङ्कटः भवेत् इति कोऽपि न विचारयति। जलसंरक्षणार्थं जागरूकता अनिवार्या एव। यदि जनाः अत्र ध्यानं न दास्यन्ति तदा अस्माकं देशस्य स्थितिरपि अफ्रीकादेशवत् भविष्यति। यथा ते जलबिन्दुप्राप्यर्थं प्रयतमानाः सन्ति तथा एव अस्माकं देशस्य अपि स्थितिः भविष्यति। अतः जलसंरक्षणार्थं जागरूकता अनिवार्या। शेषं सर्वं कुशलम्। पितृभ्यां चरणयोः चरणवन्दना।
भवतः मित्रम्
उमेशः
4. स्वस्थभोजनस्य महत्त्वं वर्णयन्त्याः अग्रजायाः अनुजं प्रति पत्रम्।
प्रिय अमित !
सप्रेम नमोनमः
माता लिखितं पत्रं प्राप्तम्। तेन पत्रेण मया ज्ञातम् यत् भवान् सन्तुलितभोजनं न सेवते, प्रतिदिनं च ‘चाऊमीन-बर्गर’ इति खादति। ईदृशं भोजनं स्वास्थ्याय सम्यक् न अस्ति। कदाचित् तु अस्य सेवनं कर्त्तुं शक्यते परं प्रतिदिनं त्वरितभोजनस्य सेवनं स्वास्थ्याय हानिकरम्।
स्वास्थ्याय तु सन्तुलितभोजनं ग्रहीतव्यम् एव यतः ‘स्वस्थशरीरे एव स्वस्थमनसः वासः’ भवति अतः भवान् त्वरितभोजनस्य सेवनं मा करोतु। स्वास्थ्यवर्धकभोजनमेव खादतु। अनेन भवान् कदापि रुग्णः न भविष्यति। भवान् स्वस्वास्थ्यविषये जागरूकः तिष्ठतु इति मे अनुरोधः।
भवतः अग्रजा
अमिता
5. सन्तुलितभोजनमेव सेवनीयम् इति वर्णयतः अग्रजस्य अनुजां प्रति पत्रम् लिखत-
परीक्षाभवनतः
दिनाङ्कः 0१/0१/२५
प्रिये लक्ष्मि !
सप्रेम नमोनमः
मात्रा लिखितं पत्रं प्राप्तम्। तेन पत्रेण मया ज्ञातम् यत् भवती सन्तुलितभोजनं न सेवते, प्रतिदिनं च ‘चाऊमीन-बर्गर’ इति खादति। ईदृशं भोजन स्वास्थ्याय सम्यक नास्ति। कदाचित् तु अस्य सेवनं कर्तुं शक्यते परं प्रतिदिनं त्वरितभोजनस्य सेवनं स्वास्थ्याय हानिकरम्। स्वास्थ्याय तु सन्तुलितंभोजनं ग्रहीतव्यम् एव यतः स्वस्थशरीरे एव स्वस्थमनसः वासः भवति, अतः भवती त्वरित-भोजनस्य सेवनं मा करोतु। स्थ्यवर्धकभोजनमेव खादतु। अनेन भवती कदापि रुग्णः न भविष्यति। भवती स्वास्थ्याविषये जागरूकः तिष्ठतु इति मे अनुरोधः।
भवत्याः अग्रजः
दीपकः
6. प्रतियोगिपरीक्षायाः सन्नद्धीकरणाय आरम्भतः एव सामान्यज्ञानस्य अभ्यासः करणीयः इति उपादिशन् पित्रा पुत्रं प्रति पत्रम्।
जयपुरतः
दिनाङ्कः ………….
प्रिय पुत्र अविनाश !
शुभाशिषो लसन्तु ।
आशासे त्वं सकुशलः स्वाध्याये रतः असि। पुत्र! अहं जानामि परीक्षायां तव प्रस्तुतिः शोभना भवति। त्वं प्रतिवर्षं कक्षायां प्रथमं स्थानं प्राप्नोषि इति अहं जानामि। ग्रीष्मावकाशे त्वं कथितवान् यत् तव लक्ष्यं प्रतियोगिपरीक्षामृत्तीर्य सङ्घलोकसेवा आयोग क्षेत्रे सेवाप्रदानम् अस्ति। पुत्र! एतल्लक्ष्यं प्राप्तुं बाल्यकालादेव सामान्यज्ञानस्य अध्ययनं करणीयम्। अत एव विषयस्य अभ्यासेन समम् एकहोरापर्यन्तं सामान्यज्ञानं वर्धयितुं प्रतिदिनं समाचारपत्रं पठ यदि अधुनातः एतल्लक्ष्यं प्राप्तुं नियमितम् अध्ययनं करिष्यसि नूनमेव साफल्यं लप्स्यसे। यदि काऽपि सहायता अपेक्षिता तर्हि अहम् करिष्यामि।
तव जनकः
आशीष कुमारः
7. जीवने सफलतां लब्धुं परिश्रमस्य महत्त्वं वर्णयन्त्याः मातुः पुत्रीं प्रति पत्रम् पूरयत-
कानपुरतः
दिनाङ्कः ………..
प्रिय पुत्र !
शुभाशिषो लसन्तु।
जीवने यदि भवती सफलतां वाञ्छति तर्हि परिश्रमः आवश्यकः। परिश्रमः विद्यार्थिजीवने विद्यार्जने, क्रीडकाय-क्रीडायां, कलाकाराय कलायां, गायकाय गीते सफलतां दापयति। जीवने सफलता परिश्रमश्च एकस्य नानणकस्य (सिक्के) द्वे स्थिते/भागे स्तः। अतएव जीवने साफल्यं प्राप्तुं कठोरपरिश्रमस्य कृते सर्वदा सज्जी भाव्यम्।
“उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः”
तव जननी
सुधा
8. स्वदेशस्य संस्कृतिं वर्णयन्तीं विदेशिनीं सखीं प्रति पत्रं लिखत-
भोपालतः
दिनाङ्कः 01/01/25
प्रिय सखी!
सप्रेम नमो नमः।
अत्र कुशलं तत्रास्तु अस्माकं। संस्कृतिः प्राचीना संस्कृतिः-‘सा प्रथमा-संस्कृतिर्विश्ववारा’। अस्माकं संस्कृतौ-अतिथि देवो भव, मातृ देवो भव, पितृ देवो भव एते सर्वे पूज्याः सन्ति। अस्माकं संस्कृतौ विविधाः धर्माः सन्ति विविधानि नृत्यानि च। नियोजितः विवाहः भारतीय-समाजस्य अन्यदेकं वैशिष्ट्यम्। भारतीय संस्कृतौ गौः माता रूपेण पूजनीया वर्तते। अत्रत्य वेशभूषा विशिष्टा। ‘शाटिका’ भारतीयमहिलानां वेशभूषा वर्तते।
तव सखी
कोमला
9.’पुत्रीं रक्ष पुत्रीं पाठय’ इति अभियानं कथं सार्थकं भविष्यतीति स्वविचारं प्रकटयन् मित्रं प्रति पत्रं लिखत-
देहलीतः
दिनाङ्कः 01/01/25
प्रियमित्र!
सप्रेम नमो नमः
अत्र कुशलं तत्र अस्तु। ‘पुत्रीं रक्ष पुत्रीं पाठय’ इति अभियानं भारतसर्व-कारेण भारतीयबालाभ्यः उद्घोषितं वर्तते। अस्य अभियानस्य लक्ष्यं बालकानाम् अपेक्षया बालिकानां संख्या न्यूना तां समं कर्तुं प्रयासाः करिष्यन्ते। अनेन अभियानेन बालिकानाम् अस्तित्व संरक्षणाय, सशक्तिकरणस्य च समन्विताः प्रयासाः भविष्यन्ति। अस्य अभियानस्य सार्थकता भारते कन्यायां साक्षरतायाः माध्यमेन तासां सामाजिक्याः, आर्थिक्याः आत्मनिर्भरताः वर्तन्ते। अनेन माध्यमेन पक्षपाती लिंग-निर्धारण समस्यायाः निराकरणं भविष्यतीति।
भवतः मित्रम्
राजेश:
