Ch-6-Sandhi, Class-10-sanskrit- (अभ्यासवान् भव:)
Ultimate NCERT Solutions for Ch-6-Sandhi
Updated Solution 2025-2026 Updated Solution 2025-2026
NCERT Solutions for Class 10 Sanskrit-(अभ्यासवान् भव:)
(षष्ठ: पाठ : सन्धि:)
( संधि व संधि-विच्छेद)
Ch-6-Sandhi
(NCERT Book)
अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धीनाम् उदाहरणानि चित्वा लिखत-
जानामि+अहम् जानाम्यहम् यत् जलोपप्लवेन जल+उपप्लवेन पीडितः रमा+ईशः रमेशः वृक्षारूढः वृक्ष+आरूढः अभवत्। लीलया+एव लीलयैव सर्वमसहत। तदा सः साधु+उपदेशम् साधूपदेशं स्मृतवान् यत् कदापि धैर्यं न त्याज्यम्। स्थितेः सामान्ये जाते सः महा+औत्सुक्येन महौत्सुक्येन गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम् खलु+इदम् ब्रह्म। तदा मोहनः सोहनः च द्वौ+अपि द्वावपि रमेशस्य गृहमागच्छतः। सर्वेऽपि सर्वे+अपि एकत्रीभूय भोजनं पचन्ति। (सर्वे छात्राः एकैकं कृत्वा सर्वेषाम् उदाहरणानाम् समाधानं कुर्वन्ति तदा एकः छात्रः वदति।)
आदित्यः = गुरुवर ! अन्तिमौ द्वौ तु स्पष्टौ न भवतः।
शिक्षकः = अस्तु, अवबोधयामि एकैकं कृत्वा।
यथा = द्वौ + अपि – द्वावपि गृहमागच्छतः।
एवमेव
(i) द्वौ+एते = द्वावेतौ पठतः।
(ii) तौ+अत्र = तावत्र लिखतः।
(iii) पो+अनम् = पवनम् मन्दं-मन्दं वहति।
(iv) पौ+अकः = पावकः सर्वं दहति।
(v) भावुकः = भौ+उकः न भवितव्यः।
(vi) ने+अनम् = नयनम् उद्धाट्य एव मार्गे चलत।
(vii) शे+अनम् = शयनम् रात्रौ एव करणीयम्।
(viii) चे+अनम् = चयनम् कृत्वा एव खाद्याखाद्यं खादनीयम्।
(ix) गै+अक: = गायकः मधुरं गायति।
(x) नै+अक: = नायकः सुन्दरं नृत्यति।
(xi) शायिकाः = शै+इकाः रेलयानेषु भवन्ति।
‘एचोऽयवायावः‘ इति नियमानुसारं ए, ऐ, ओ, औ- इत्येतेषां स्वराणां परतः कस्मिंश्चिदपि स्वरे आगते एतेषां चतुर्णां स्थाने क्रमशः अय्, आय्, अव्, आव् च भवन्ति। एते ‘अयादिचतुष्टय‘ इति नाम्नाऽपि ज्ञायन्ते।
छात्रा: = अवगतः अस्माभिः अयादिसन्धिः।
शिक्षकः = पठिते अनुच्छेदे अन्तिमं वाक्यमासीत् – सर्वेऽपि (सर्वे+अपि) एकत्रीभूय भोजनं पचन्ति। एतत् पूर्वरूपसन्धेः उदाहरणम् अस्ति।
एवमेव अन्यानि उदाहरणानि पश्यन्तु-
(i) अन्येऽपि = अन्ये+अपि जनाः भोजनं खादन्ति।
(ii) सर्वेऽत्र = सर्वे+अत्र उपविशन्ति।
(iii) विष्णोऽवतु = विष्णो+अवतु माम्।
(iv) शिशोऽपि = शिशो+अपि कुशली त्वम्।
(v) साधोऽत्र = साधो+अत्र भोजनं कुरु।
‘एङः पदान्तादति‘, इति सूत्रानुसारं पदान्तयोः ए, ओ इत्येतयोः परतः यदि अकारः आगच्छेत् तर्हि द्वयोः स्थाने पूर्वरूपः अर्थात् ‘ए, ओ‘ एव भवति। अकारश्च ऽ इति अवग्रहस्य चिह्नेन दर्श्यते। एषः भेदः ‘पूर्वरूपसन्धिः‘ इति कथ्यते।
छात्रा: शिक्षकः = पूर्वरूपसन्धिरपि स्पष्टः। किं कोऽप्यन्यः भेदः भवति स्वरसन्धेः।
शिक्षकः = आम्, प्रकृतिभावः पररूपश्च एतौ द्वौ अन्यौ भेदौ अपि स्तः। परं दशमकक्षायां केवलं षड्भेदाः। अधुना एतेषां पुनरभ्यासम् कुर्मः येन स्वरसन्धिः पूर्णतया हृदयंगमः भवेत्।
अभ्यास
1. अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेदं वा कृत्वा लिखत-
(i) वानराः सर्वत्र वृक्षे + अपि वृक्षेऽपि कूर्दन्ति।
(ii) के + अत्र केऽत्र विद्यालयम् आगत्य कक्षां न आगताः।
(iii) हे शिशोऽत्र शिशो+अत्र आगत्य उपविश|
(iv) ते यठन्ति, तावपि तौ+अपि पठतः।
(v) यथा+उचितं यथोचितं कार्यं करणीयम्।
(vi) एतत् पुस्तकं तु तवैवास्ति तव+एव+अस्ति।
(vii) साधूपरि साधु+उपरि गच्छतः।
(viii) कवि+इन्द्र: कवीन्द्रः नवीनां कवितां श्रावयति।
(ix) कस्मिन्नपि अत्याचारः अति+आचारः तु न करणीयः।
(x) भानो + ए भानवे जलार्पणं करणीयम्।
शिक्षकः = छात्राः! ह्यः अस्माभिः स्वरसन्धिः सम्यगयगतः। अद्य व्यञ्जनसन्धिं विसर्गसन्धिं चावबोधयामि।
छात्राः = (समवेतस्वरेण) आम् श्रीमन्! वयमपि सन्धेः अन्यान् भेदान् अवगन्तुम् इच्छामः|
(अध्यापकः श्यामपट्टसहायतया पाठयति।)
(छात्राश्च स्वपुस्तिकासु लिखन्ति।)
व्यञ्जन-सन्धिः
1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
(क) चलत्+अनिशम् = चलदनिशम् एव उन्नतिं करोति।
(i) एतस्मादेव = एतस्मात्+एय पाठात् त्वं पठ।
(ii) जगत्+ईशः = जगदीशः सर्वत्र विद्यमानः।
(iii) यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = अच्+अन्तः कथ्यते।
(iv) शब्दरूपः सुप्+अन्तः = सुबन्तः कथ्यते, धातुरूपश्च तिङन्तः।
वर्गस्य प्रथमः वर्णः + वर्गस्य तृतीयः, चतुर्थः वर्णः, स्वरः, य्, र्, लू, व् वर्णाः
↓
प्रथमवर्णस्य स्थाने तृतीयः वर्णः (परिवर्तनम्)
(ख) अस्मात् + नगरात् अस्मान्नगरात् ग्रामः अतिदूरम्।
(i) सम्यक्+नेता = सम्यङ्नेता एव राष्ट्रोन्नत्यै प्रयतते।
(ii) किन्नु = किम्+नु खल्विदं लिखितम्।
(iii) सः प्रत्यक्+आत्मा = प्रत्यगात्मा भूत्वा परोपकारं करोति।
(iv) दिङ्नागः = दिक्+नागः ‘कुन्दमाला’ इत्यस्य लेखकः।
(v) वर्षस्य षण्मासाः = षटू/षड्+मासाः व्यतीताः।
(ग) सः कदाचित् ध्यानेन श्रृणोति कदाचित्+च = कदाचितच्च न।
(i) शरत्+चन्द्रः = शरच्चन्द्रः मम मित्रस्य नाम।
(ii) मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = कुर्यात्+जीवितम्।
(iii) मनस्+चञ्चलम् = मनः चञ्चलं हि भवति।
(iv) हरिश्शेते = हरिः+शेते वैकुण्ठे।
स्, तवर्ग + श्, चवर्ग
↓ ↓
श्, चवर्ग (परिवर्तनम्)
(घ) धनुस्+टङ्कारः = धनुष्टङ्कारः तु युद्धस्य संकेतः।
(i) प्रथमपंक्त्याः बालस्+षष्ठः = बालषष्ठः पाठं पठेत्|
(ii) रामायणं वाल्मीकिना लिखितम्, तट्टीका = तत्+टीका च केन लिखिता?
(iii) मह्यम् पक्षिणाम् उत्+डयनम् = उड्डयनम् अतीव रोचते।
(iv) टीकां तु लेखकष्टीकते। = लेखकस्+टीकते।
स्, तवर्ग + ष, टवर्ग
↓ ↓
ष, टवर्ग (परिवर्तनम्)
(ङ) अतिथेः सद्+कारः = सत्कारः करणीयः।
(i) परिश्रमी छात्रः एव परीक्षायां सफलतां लभ्+स्यते = लप्स्यते।
(ii) दिक्पालः = दिग्ग्+पालः कः भवति?
वर्गस्य द्वितीयः तृतीयः चतुर्थः वर्णः+वर्गस्य प्रथमः, द्वितीयः वर्णः, श, ष, स्
↓
स्ववर्गस्य तृतीयः वर्णः भवति।(परिवर्तनम्)
(च) अ. हरिम्+वन्दे – हरिं वन्दे जगद्गुरुम्।
(i) अहम+पुनः = अहं पुनः पाठं पठिष्यामि ।
(ii) अपूर्वं खलु = अपूर्यम्+खलु आसीत् नाटके नायकस्य अभिनयम्।
(iii) त्वं माम् = त्वम्+माम् आकारयसि किम्?
(iv) श्रेष्ठम्+कर्ष = श्रेष्ठं कर्म एव कर्तव्यम्।
पदान्त म्+व्यञ्जनवर्णः
↓
अनुस्वारः ( ं) (परिवर्तनम्)
(च) आ. अति सम्+चयः = सञ्चयः न कर्तव्यः।
(i) शीतकाले शैत्यं कम्पनम्+च = कम्पनञ्य अप्यनुभूयते।
(ii) शीतकाले रात्रौ सञ्चरणम् = सम्+चरणम् दुष्करम्।
(iii) भुजनगरम्+तु = नगरन्तु गुजरातराज्ये अस्ति।
(iv) त्वं किमर्थं कुम्+ठितः = कुण्ठितः असि?
म्/ अनुस्वारः + वर्गीय व्यञ्जनम्
↓
परवर्ती-वर्गस्य पञ्चमः-(परिवर्तनम्)
विसर्ग-सन्धिः
1. उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
(क) हे मित्र! नमः+ते = नमस्ते।
(i) शत्रोः अपि शिरः+छेदः = शिरश्छेदः न करणीयः।
(ii) कठिना परिस्थितिः दारुणः+च = दारुणश्य कालः।
(iii) तुरङ्: + तुरङ्गैः = तुरङ्गास्तुरंगेः सह धावन्ति।
(iv) धनुष्टङ्कारः = धनुस्+टङ्कारः श्रूयते।
(v) सः कठिनं तपस्तेपे = तपः+तेपे।
विसर्ग (:) + श्, च् छ्
↓
श् (परिवर्तनम्)
विसर्ग + स्, त्, थ,
↓
स्. (परिवर्तनम्)
विसर्ग ष, ट्, ठ
↓
ष (परिवर्तनम्)
(ख) रामः वनमगच्छत् लक्ष्मणः+अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
(i) निर्धन: + जनः = निर्धनो जनः धनाभावे सदा दुःखितः भवति।
(ii) चौरः + अयम् = चौरोऽयम् मम स्यूतं चोरितवान्।
(iii) एकस्मिन् वने व्याघ्रः + नष्टः व्याघ्रो नष्टः अभवत्।
(iv) पण्डितो जनः पण्डितः+जनः विद्वान् भवति।
(v) सः पठति ततोऽसौ = तत: + असौ लिखति|
(vi) तस्य मनोरथः = मनस्+रथः सिध्यति।
(ग) वने वह्निः+दह्यते = वह्निर्दह्यते पादपान्।
विसर्ग (:) + अ
↓
उ (गुण ओ) + S (अवग्रहः)
विसर्ग (:) + वर्गस्य तृतीयः, चतुर्भः वर्णः, य, र्, ल, व्, ह् उ (गुण ओ)
(i) वसन्ते प्रकृतिः+एव = प्रकृतिरेव मनोहारिणी।
(ii) कन्या पितुः गृहम् = पितुर्गृहम् त्यक्त्वा पतिगृहं गच्छति।
(iii) नाविकः = नौ+इकः नौकां चालयति।
(iv) नाटककारः कविरपि = कविः+अपि च काव्यं कुरुतः।
(v) अहं पदातिरेव = पदातिः+एव विद्यालयम् आगच्छामि।
अ, आ भिन्नस्वरात् परः विसर्गः+स्वरः, वर्गस्य तृतीयः, चतुर्थः पञ्चमो वा वर्णः स्यात्।
↓
इ (परिवर्तनम्)
(घ) ध्यानेन न पठसि अतः+एव = अत एव उत्तमाङ्कान् न प्राप्नोषि।
(i) आकाशे = आकाश+इ कपोता उत्पतन्ति।
(ii) अर्जुनः+उवाच = अर्जुन उवाच अहं युद्धं न करिष्यामि।
(iii) विद्यालयं बालका आगच्छन्ति = बालकाः+आगछन्ति पठन्ति च्।
(iv) बसयानेन स गच्छति = सः+गछति विद्यालयम्।
(v) एषः+आगच्छति = एव आगच्छति कार्य करोति पठति च।
अनुनासिकसन्धिः
1. अधोलिखितानि वाक्यानि ध्यानेन पठत-
(क) एतन्न शोभनीयम्।
(i) तन्न उचितम्।
(ii) वाड्मयं तपः।
(iii) तन्मयो भूत्वा कार्य शुरु।
(iv) एतन्नुरारिः अस्ति।
(v) तन्नाम किमस्ति।
उपरि लिखितानि सर्वाणि उदाहरणानि अनुनासिकसन्धेः सन्ति।
अनुनासिकसन्धी पूर्वपदस्य अन्तिमः वर्णः यदि वर्गस्य कोऽपि वर्णः भवति, उत्तरपदस्य प्रथमः वर्णः यदि अनुनासिकवर्णः भवति तदा पूर्वपदस्य अन्तिमवर्णः स्ववर्गस्य पञ्चमवर्णे परिवर्तितः भवति।
यथा-
तन्नाम – तत् (त्) + नाम
वर्गस्य प्रथमः वर्णः + वर्णस्य अन्तिमः वर्णः
तदा तु वर्णः स्ववर्गस्य अन्तिमे ‘नू’ इति वर्णे परिवर्तितः भवति।
एते सर्वे वर्णाः अनुनासिकवर्णाः सन्ति।
यथा- ङ्, ञ्, ण्, न्, म्
अभ्यासः
1. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
(i) हे ईश्वर! सन्मतिं यच्छ। = सत् + मतिम्
(ii) हे छात्रा! सत् + मार्गे चलता। = सन्मार्गे
(iii) प्रलयकाले सर्वत्र अम्मयं भवति। = अप + मयम्
(iv) जगन्नाथः सर्वान् रक्षति। = जगत् + नाथः
(v) तन्मात्रम् एव खाद। = तत् + मात्रम्
(vi) कक्षायां षट् + नवतिः छात्राः सन्ति। = षण्णवतिः
(vii) सा जगत् + माता इति रूपेण प्रसिद्धा अस्ति। = जगन्माता
(viii) मम सन्मुखे तिष्ठा। = सत् + मुखे
(ix) दिक् + नागः सर्वान् रक्षति। = दिङ्नागः
तुक् आगम- सन्धिः
2. अधोलिखितानि वाक्यानि पठत-
(i) ग्रीष्मे जनाः वृक्षच्छायां सेवन्ते।
(ii) हे छात्राः ! एकम् अनुच्छेदं लिखत।
(iii) पुरा भारते एकच्छत्रं राज्यम् आसीत्।
(iv) आकाशः मेघैः आच्छन्नः अस्ति।
(v) सम्बन्ध-विच्छेदः न करणीयः।
- उपरि यानि रेखाङ्कितपदानि सन्ति तानि सर्वाणि ‘तुक्’ आगम-सन्धेः उदाहरणानि सन्ति।
- तुक्-आगमः – सन्धौ यदि पूर्वपदे ‘अ, इ, उ, ऋ स्वराः भवन्ति उत्तरपदे च ‘छ’ भवति तदा उभयोः पदयोः मध्ये ‘चू’ वर्णः आगच्छति।
- परं यदि पूर्वपदे आ, ई ऊ स्वराः भवन्ति तदा ‘च’ वर्णस्य आगमः विकल्पेन भवति।
- यथा – लक्ष्मी-छाया = लक्ष्मी छाया/लक्ष्मीच्छाया
3. अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
(i) शोधच्छात्राः = शोध + छात्रा
(ii) विच्छेदः = वि + छेदः
(iii) अनु + छेदः = अनुच्छेद
(iv) परि + छेदः = परिच्छेद
(v) लक्ष्मीच्छाया = लक्ष्मी + छाया
(vi) वृक्ष + छाया = वृक्षच्छाया
(vii) तव + छविः = तवच्छविः
(viii) वृक्षच्छेदनम् = वृक्ष + छेदनम्
(ix) छुरिका + छिन्नः = छुरिकाच्छिन्नः
(x) शब्दच्छेदः = शब्द + छेवः
