Chapter-7-Samasa, Class-10-sanskrit- (अभ्यासवान् भव:)
Ultimate NCERT Solutions for Chapter-7-Samasa
Updated Solution 2025-2026 Updated Solution 2025-2026
NCERT Solutions for Class 10 Sanskrit-(अभ्यासवान् भव:)
(सप्तमः पाठः समासाः)
( समास , प्रश्न-उत्तर व समाधान)
Chapter-7-Samasa
(NCERT Book)
1. अव्ययीभावः
(क) प्रायः जनाः प्रत्यक्षम् एव सत्यं स्वीकुर्वन्ति।
(ख) तस्मिन् विद्यालये प्रतिमासं परीक्षाः भवन्ति।
(ग) छात्राः यथामति अध्ययनं कुर्वन्ति।
(घ) हरिद्वारे उपगङ्गम् अनेके देवालयाः सन्ति।
उल्लिखितवाक्येषु रेखाङ्कितपदेषु चतस्रः विशेषताः सन्ति-
(i) सर्वेषु पदेषु प्रथम पूर्व-पदम् अव्ययम् उपसर्गो वा अस्ति।
(ii) सर्वाणि पदानि नपुसंकलिङ्गे सन्ति।
(iii) सर्वेषां पदानां प्रयोगः अव्ययवत् भवति।
(iv) एतेषु समस्तपदेषु पूर्वपदम् प्रधानम् अस्ति यतो हि वाक्येषु क्रियापदानि प्रथम/पूर्व पदस्य अनुसारम् अर्थं बोधयन्ति।
इत्थ वयं जानीमः यत् अव्ययीभाव समासः पूर्वपदप्रधानः भवति। अयं समासः सर्वदा नुपसंकलिङ्गे तिष्ठति।
एवम् अव्ययीभावसमासं स्पष्टरूपेण विज्ञाय अस्य इतराणि उदाहरणानि द्रष्टव्यानि-
क्रमः समस्तपदम् विग्रहः
1. यथामति मतिम् अनतिक्रम्य
2. अनुगुणम् गुणानाम् अनुरूपम्
3. निर्बाधम् बाधानाम् अभावः
4. अनुरथम् रथस्य पश्चात्
5. निर्विघ्नम् विघ्नानाम् अभावः
6. प्रतिमासम् मासं मासम् इति
7. उपगुरु गुरोः समीपम्
8. अधिहरि हरौ इति
9. सपरिवारम् परिवारेण सह
10. प्रतिदिनम् दिने-दिने इति
अभ्यास
प्रदत्त- तालिकायां समस्तपदं विग्रहं वा लिखत-
क्रमः समस्तपदम् विग्रहः
- निर्मलम् मलस्य अभावः
- प्रत्येकम् एकम्-एकम् इति
- निर्दोषम् दोषाणाम् अभावः
- सव्यवधानम् व्यवधानेन सह
- निरर्थकम् अर्थस्य अभावः
- निश्चिन्तः चिन्तायाः अभावः
- स्नेहेन सहितम् सस्नेहम्
- यथासमयम् समयम् अनतिक्रम्य
- उपगङ्गम् गङ्गायाः समीपम्
- सहर्षम् हर्षेण सहितम्
2. तत्पुरुषः
(i) वानराः वृक्षोपरि क्रीडन्ति। (वृक्षस्य उपरि)
(ii) वनराजः उच्चैः गर्जति। (वनस्य राजा)
(iii) संन्यासी पदनिर्लिप्तः भवति। (पदाय निर्लिप्तः)
(iv) रामः शरणागतं विभीषणम् अरक्षत्। (शरणम् आगतम्)
(v) चिकित्सकः अग्निदग्धस्य उपचारम् अकरोत्। (अग्निना दग्धस्य)
उल्लिखितेषु उदाहरणेषु वयं पश्यामः यत्-
(i) प्रथम/पूर्वपदेषु द्वितीया, तृतीया, चतुर्थी, षष्ठी चेति भिन्न-भिन्न विभक्तीनां प्रयोगः वर्तते।
(ii) क्रियायाः प्रयोगः द्वितीय/उत्तरपदाय भवति।
अतः यस्मिन् समासे प्रथम/पूर्वपदेषु द्वितीया विभक्तितः सप्तमी विभक्ति – पर्यन्तं विभिन्नविभक्तीनां प्रयोगः भवति सः समासः तत्पुरुषसमासः भवति।
तत्पुरुषसमासस्य इतराणि उदाहरणानि-
क्रमः समासः विग्रहः उपभेदः
- ग्रामगतः ग्रामं गतः द्वितीया-तत्पुरुषः
- पर्वतारूढः पर्वतम् आरूढः द्वितीया तत्पुरुषः
- कालिदासलिखितम् कालिदासेन लिखितम् तृतीया – तत्पुरुषः
- चक्रहतः चक्रेण हतः तृतीया – तत्पुरुषः
- यज्ञसामग्री यज्ञाय सामग्री चतुर्थी तत्पुरुषः
- निद्राकुलः निद्रया आकुलः चतुर्थी तत्पुरुषः
- सिंहभीतः सिंहात् भीत्ः पञ्चमी- तत्पुरुषः
- आकाशपतितम् आकाशात् पतितम् पञ्चमी-तत्पुरुषः
- गृहपतिः गृहस्य पतिः षष्ठी – तत्पुरुषः
- गौरीशः गौर्याः ईशः षष्ठी – तत्पुरुषः
- सङ्गीतपटुः सङ्गीते पटुः सप्तमी-तत्पुरुषः
- चिन्तामग्नः चिन्तायां मग्नः सप्तमी – तत्पुरुषः
- असत्यम् न सत्यम् नञ्- तत्पुरुषः
- अनुपकारः न उपकारः नञ्-तत्पुरुषः
आकाशात् पतितं तोयं यथा गच्छति सागरम्। सर्वदेव नमस्कारः केशवं प्रति गच्छति॥
अभासः
अधोलिखितेषु समासं विग्रहं वा कृत्वा लिख्यताम्-
क्रमः समास विग्रहः
- न्यायाधीशः न्यायस्य अधीशः
- देहविनाशः देहस्य विनाशः
- अमन्त्रः न मन्त्रः
- अयोग्यः न योग्यः
- वृक्षोपरि वृक्षस्य ऊपरि
- निद्राभङ्गदुःखम् निद्रायाः भङ्गस्य दुःखम्
- वनराजः वनस्य राजा
- नरपतिः नराणां पतिः
- पक्षिकुलम् पक्षिणां कुलम
- प्रीतलक्षणम् प्रीतेः लक्षणम्
- निशान्धकारे निशायाः अंधकारें
- अपक्वम् न पक्वम्
- मृत्तिकाक्रीडनकम् मृत्तिकायाः क्रीडनकम्
- वृद्धिलाभा: वृद्धे लाभाः
- अधर्मः न धर्मः
कर्मधारयः
(विशेषण-विशेष्यौ)
(i) कृष्णसर्प: बिलम् प्राविशत्। (कृष्णः च एषः सर्पः/कृष्णः सर्पः)
(ii) महादेवी करुणां करोतु। (महती च इयं देवी/महती देवी)
(iii) महावृक्षः फलानि ददाति। (महान् च अयं वृक्षः/महान् वृक्षः)
(उपमानोपमेयौ (उपमान + उपमेयौ))
(i) सिंहपुरुषः/पुरुषसिंहः श्री. समः रावणं हतवान्। (सिंह इव पुरुषः/पुरुषः सिंहः इव)
(ii) देव्याः कमलनेत्रे दृष्ट्वा भक्त्त: प्रसन्नः अभवत्। (कमलम् इव नेत्रे)
(iii) तस्याः चन्द्रमुखं दृष्ट्वा सः मोहितः अभवत्। (चन्द्रः इव मुखम्)
उल्लिखितेषु वाक्येषु रेखाङ्कितपदेषु विशेषणविशेष्ययोः अथवा उपमानोपमेययोः प्रयोगः अस्ति। एतेषु विशेष्यपदम् अथवा उपमेयपदम् एव प्रधानं भवति। उपमानपदस्य पश्चात् ‘इव’ इति अव्ययस्य प्रयोगेण उपमानोपमेय-कर्मधारयसमासस्य विग्रहः भवति। किन्तु विशेषण- विशेष्ययोः प्रथमा-विभक्त्याः प्रयोगेण समासविग्रहः भवति।
अभ्यास
1. समस्तपदं विग्रहं वा लिखत-
क्रमः समस्तपदम् विग्रहः
- महावृक्षः महान् वृक्षः
- पुरुषव्याघ्रः पुरुषः व्याघ्रः इव
- महाकम्पनम् महत् कम्पनम्
- महाविनाशः महत् विनाश:
- रक्त्तोत्पलम् रक्तम् उत्पलम्
- पीतपुष्पाणि पीतानि पुष्पाणि
- घनश्यामः घन व श्यामः
- महोत्सवः महान् उत्सवः
- विशालपर्वतः विशालः पर्वतः
- महागौरी महती व इयं गोरी
द्विगु-समास:
(i) जगत्पालकः त्रिलोकं रक्षति।
(ii) नवरात्रे सः सप्तशतीं पठति।
(iii) दानस्य महत्त्वं चतुर्युगं यावद् भवति।
(iv) दण्डकारण्ये ‘पञ्चवटी’ इति स्थाने श्रीरामः सीतया लक्ष्मणेन च सह अवसत्।
(v) इयं शताब्दी विज्ञानस्य अस्ति।
उल्लिखितेषु वाक्येषु रेखाङ्कितपदेषु चतस्रः विशेषताः सन्ति-
(क) एतानि पदानि सङ्ख्याशब्दैः प्रारभन्ते।
(ख) बहुवचनसङ्ख्या प्रयोगे अपि सर्वेषु पदेषु एकवचनस्य प्रयोगः विद्यते।
(ग) समस्तपदानि नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवन्ति।
(घ) समस्तपदानि/समूहस्य/समाहारस्य बोधं कारयन्ति।
एतादृशाः समासाः/एतादृशानि समस्तपदानि द्विगुसमासाः कथ्यन्ते।
इत्थं वयं जानीमः यत् द्विगुसमासेषु प्रथमशब्दः सङ्ख्यावाचको भवति। एते समासाः नपुंसकलिङ्गे स्त्रीलिङ्गे वा भवन्ति।
समाहार/समूहकारणात् एतेषां समासानां विग्रहः एवं भवति-
क्रमः समस्तपदानि विग्रहः
- नवरात्रम् नवानां रात्रीणां समाहारः
- पञ्चवटी पञ्चानां वटानां समाहारः
- चतुर्युगम्/चतुर्युगी चतुर्णां युगानां समाहारः
- त्रिलोकम्/त्रिलोकी त्रयाणां लोकानां समाहारः
- शताब्दम्/शताब्दी शतस्य अब्दानां समाहारः
अधोलिखित- तालिकायाम् समस्तपदं विग्रहं वा लिख्यन्ताम्-
क्रमः समस्तपदम् विग्रहः
- सप्ताहः सप्तानाम् अह्नां समाहारः
- पञ्चानां पात्राणां समाहारः पञ्चपात्रम्
- त्रिभुवनम् त्रयाणां भुवनानां समाहारः
- पञ्चरात्रम् पञ्चानां रात्रीणां समाहारः
- अष्टाध्यायी अष्टानाम् अध्यायानां समाहारः
3. द्वन्द्व समासः
(i) इतरेतरद्वन्द्वः
(i) दशरथस्य चत्वारः पुत्राः रामलक्ष्यमणभरतशत्रुघ्नाः आसून। (रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च)
(ii) रामलक्ष्मणौ मिथिलाम् अगच्छताम्। (रामः च लक्ष्मणः च)
(iii) मयूरीकुक्कुटौ संवदतः/कुक्कुटमयूर्यौ संवदतः। (मयूरी च कुक्कुटः च/कुक्कुटः च मयूरी च)
उल्लिखितवाक्येषु चतस्रः विशेषताः सन्ति-
(i) समासेषु शब्दानां सङ्ख्यायाः अनुसारं द्विवचनं, बहुवचनं वा प्रयुक्तम्।
(ii) वाक्येषु सर्वेषां पदानां सङ्ख्यायाः अनुसारं क्रियापदस्य वचनं निर्धारितम् भवति अतः सर्वाणि पदानि प्रधानानि सन्ति।
(iii) समासस्य अन्तिमपदानुसारं समासस्य लिङ्गं निर्धार्यते।
(ii) समाहार द्वन्द्वः
(i) योगिनं शीतोष्णं न बाधते। (शीतं च उष्णं च तयोः समाहारः)
(ii) सः पुत्रपौत्रं दृष्ट्वा प्रसीदति। (पुत्रः च पौत्रः च, तयोः समाहारः)
(iii) सः दिवारात्रं प्रसन्नः तिष्ठति। (दिवा च रात्रिः च, तयोः समाहारः)
उल्लिखितवाक्येषु रेखाङ्कितपदेषु यद्यपि द्वे एव पदे प्रधाने परन्तु तयोः समाहार/समूह-कारणाम् एकवचनस्य प्रयोगः अभवत् एवम् एतेषु उदाहरणेषु अधोलिखित-विशेषताः सन्ति-
(i) समस्तपदानि नपुंसकलिङ्गे एकवचने सन्ति।
(ii) द्वयोः पदयोः एकः समाहारः भवति।
(iii) एकशेषद्वन्द्वः
पितरौ = माता च पिता च- अत्र एकस्य पितृशब्दस्य द्विवचने प्रयोगेण एकशेषद्वन्दः समासः कथ्यते। इतरेतरद्वन्द्व समासे ‘मातापितरौ’ इत्यस्य अपि प्रयोगः भवति।
अभ्यासः
अधोलिखिततालिकायां समस्तदेभ्यः विग्रहं विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-
क्रमः समस्तपदानि विग्रहः
- अग्निसोमौ अग्निश्च सोमश्च
- पाणिपाद्म पाणि च पादं च
- सीतारामौ सीता च रामः च
- इन्द्रः च वरुणः च इन्द्रावरुणौ
- रमाशारदे रमा च शारदा च
- धर्मार्थकाममोक्षा धर्मः च अर्थः च कामः च मोक्षः च
- लतापुष्पम् लता च पुष्पं च
- मूषकमार्जारौ मूषकः च मार्जारः च
- अहोरात्रम् अहश्य रात्रिश्य
- सुखदुःखे सुखं च दुःखम् च
4. बहुव्रीहिः
(i) चतुर्मुखः ब्रह्मा सृष्टिरचनां करोति। (चत्वारि मुखानि यस्य सः)
(ii) चतुर्भुजः विष्णुः सृष्टेः पालनं करोति। (चतस्रः भुजाः यस्य सः)
(iii) त्रिनेत्रः शिवः जगत् संहरति। (त्रीणि नेत्राणि यस्य सः)
(iv) क्रूरकर्मा जनः आतङ्कवादी भवति। (क्रूर कर्म यस्य सः)
(v) सिंहवाहना दुर्गा महिषासुरस्य वधम् अकरोत्। (सिंहः वाहनं यस्याः सा)
उल्लिखितवाक्येषु रेखाङ्कितपदेषु किमपि पदं प्रधानं नास्ति। अपि तैः पदेः सङ्केतितं किमपि अन्यद् एव पदं प्रधानम् अस्ति। एतेषु समासेषु अधोलिखिताः विशेषताः सन्ति।
(i) द्वे पदे मिलित्वा अन्यपदं सङ्केतयन्ति।
(ii) द्वे पदे यदा परस्परं विशेषणम् विशेष्यं च भवतः तदा ते प्रथमाविभक्तौ समानलिङ्गे च तिष्ठतः।
(iii) विग्रहाय अन्ते यस्य सः/यस्याः सा इत्यादीनां प्रयोगः भवति।
इत्थं वयं जानीमः यद् बहुव्रीहिसमासः अन्यपदप्रधानः भवति। यदा बहुव्रीहिसमासे द्वे पदे एकस्मिन् एव विभक्तौ भवतः तदा समानाधिकरणबहुव्रीहिः भवति। बहुव्रीहिसमासे यदा द्वे पदे पृथक-पृथक- विभक्तौ भिन्न-लिङ्गे वा तदा व्यधिकरण बहुव्रीहिः समासः भवति।
अभ्यासः
अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-
क्रमः समस्तपदानि विग्रहः
- लम्बोदरः लम्बम् उदरं यस्य सः
- पीताम्बरः पीतम्अम्बरं यस्य सः
- कृतोपकारः कृतः उपकारः येन सः
- प्रत्युत्पन्नमतिः प्रत्युत्पन्ना मतिर्यस्य सः
- गजाननः गज इव आननं यस्य सः
- चन्द्रमुखी चन्द्र इव मुखं यस्याः सा
- चक्रपाणिः चक्रं पाणौ यस्य सः
- चन्द्रमौलिः चन्द्रः मौलौ यस्य सः
- बहुकमलम् बहूनि कमलानि यस्मिन् तत्
- जितेन्द्रियः जितानि इन्द्रियाणि येन सः
मिश्रिताभ्यासः
अधोलिखितसमस्तपदेभ्यः विग्रहाः विग्रहेभ्यः च समस्तपदानि निर्माय तेषां नामानि अपि लिख्यन्ताम्-
क्रमः समस्तपदम् विग्रहः समासनाम
- मेघश्याम् मेघ इव श्यामः कर्मधारयः
- अयुक्तम् न युक्तम् नञ्तत्पुरुषः
- देहविनाशाय हस्यविनाशाय तत्पुरुषः
- नीलकमलम् नीलं च तत् कमलम् कर्मधारयः
- सहर्षम् हर्षेण मिश्रितम् अव्ययीभावः
- कर्कशध्वनि कर्कशः ध्वनिः कर्मधारय
- पञ्चवटी पञ्चानां वटानां समाहारः द्विगु
- वनराजः वनस्य राजा षष्ठी तत्पुरुषः
- स्थितप्रज्ञः स्थिता प्रज्ञा यस्यः सः बहुव्रीहिः
- मातापितरौ माता च पिता च इतरेतरद्वन्दः

