Chapter-8-Pratyaya, Class-10-sanskrit- (अभ्यासवान् भव:)
Ultimate NCERT Solutions for Chapter-8-Pratyaya
Updated Solution 2025-2026 Updated Solution 2025-2026
NCERT Solutions for Class 10 Sanskrit-(अभ्यासवान् भव:)
(अष्टम: पाठ: प्रत्यया:)
( प्रत्यय:, प्रश्न-उत्तर व समाधान)
Chapter-8-Pratyaya
(NCERT Book)
अभ्यासः
1. शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरुत-
(i) धावन्तः धावकाः यशः प्राप्नुवन्ति।(धाव्+शत)
(ii) वस्त्राणि नयन् रजकः श्रान्तः भवति।(नी+शतृ)
(iii) जलं पिबन्तौ तृषार्तौ सन्तुष्टौ स्तः।(पिब्+शतृ)
(iv) कथां श्रावयन् महिला शिशुं शाययति।(श्रु+शतृ)
(v) कार्यं कुर्वन्त्यः स्त्रियः गीतं गायन्ति।(कृ+शत)
2. शानच्प्रत्ययं योजयित्वा वाक्यपूर्तिं कुरुत-
(i) गुरुं सेव्+शानच् सेवमानाः छात्राः सफलतां लभन्ते।
(ii) कष्टं सह्+शानच् सहमानाः जनाः दुःखिनः भवन्ति।
(iii) सत्यं ब्रू+शानच् ब्रुवाणाः नराः सम्मानं प्राप्नुवन्ति।
(iv) तस्य वृध+शानच् वर्धमानः प्रगतिः पितरं हृष्यति।
(v) मुद्+शानच् मोदमाना बालिका नृत्यति।
अभ्यासः
1. रिक्त्तस्थानानि पूरयत-
(i) रामेण पाठः लेखितव्यः। (लिख्+तव्यत्)
(ii) लतया पुष्पाणि न(त्रोटयितव्यानि) | (त्रुट्+तव्यत्)
(iii) त्वया जलं वृथा न कर्त्तव्यम्। (कृ+तव्यत्)
(iv) त्वया उच्चैः न वक्त्तव्यम्। (वद्+तव्यत्)
(v) अस्माभिः बहिः भ्रमितव्यम्। (भ्रम्+तव्यत्)
(vi) सर्वैः सत्यं वक्त्तव्यम्। (वद्+तव्यत्)
(vii) युष्माभिः सन्तुलितभोजनम् एव खादितव्यम्। (खाद्+तव्यत्)
(viii) अमितेन अवश्यमेव तत्र गन्तव्यम्। (गम्+तव्यत्)
(ix) नकुलेन पाठाः पठितव्यः। (पठ्+तव्यत्)
(x) तैः धर्मः पालितव्यः। (पाल्+तव्यत्)
2. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(i) अस्माभिः एतत् कार्यं कर्त्तव्यम्। (अस्मद्)
(ii) युष्माभिः खगाः रक्षणीयाः। (युष्मद्)
(iii) नमितेन पाठाः पठितव्याः। (नमित)
(iv) सर्वैः अनुशासनं पालयितव्यम्। (सर्व)
(v) सैनिकैः देशरक्षा कर्त्तव्या। (सैनिक)
(vi) जनैः मधुरं वक्तव्यम्। (जन)
(vii) श्रमिकैः परिश्रमः कर्त्तव्यः। (श्रमिक)
(viii) अध्यापकैः नियमाः पालयितव्याः। (अध्यापक)
(ix) शिक्षकेन मनसा पाठयितव्यम्। (शिक्षक)
(x) तेन लेखौ लिखितव्यौ। (तत्)
3. कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
(i) न्यायाधीशेन न्यायः कर्त्तव्यः। (न्याय)
(ii) त्वया पौष्टिकभोजनं खादितव्यम्। (पौष्टिकभोजन)
(iii) सर्वैः प्रातः भ्रमणं कर्त्तव्यम्। (भ्रमण)
(iv) तेन कथाः पठितव्याः। (कथा)
(v) अस्माभिः पाठाः स्मर्तव्याः। (पाठ)
(vi) युष्माभिः सुर्चारतानि एव सेवितव्यानि। (सुचरित)
(vii) जनैः सुकार्याणि एव कर्त्तव्यानि। (सुकार्य)
(viii) छात्रैः प्रश्नाः प्रष्टव्याः। (प्रश्न)
(ix) बालैः जलं न दूषयितव्यम्। (जल)
(x) युष्माभिः पुष्पाणि न त्रोटयितव्यानि। (पुष्प)
‘अनीयर्‘ प्रत्यय:
1. अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्‘ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
पदानि
(i) अस्माभिः धर्मः आचरणीयः। आचरणीयः
(ii) जनैः परिश्रमः करणीयः। करणीयः
(iii) सर्वैः पर्यावरणस्य रक्षा करणीया। करणीया
(iv) बालैः नियमाः पालनीयाः। पालनीयाः
(v) त्वया एषः पाठः पठनीयः। पठनीयः
(vi) सर्वैः समयस्य अनुपालनं। कर्त्तव्यम्
(vii) त्वया कदापि वृथा न वदनीयम्। वदनीयम्
(viii) अनेन एतत् न करणीयम्। करणीयम्
(ix) अस्माभिः दूषितं जलं न पानीयम्। पानीयम्
(x) युष्माभिः पर्युषितम् अन्नं न खादनीयम्। खादनीयम्
2. अधोलिखितेषु वाक्येषु ‘अनीयर्‘ प्रत्यययुक्तानि पदानि इति (✔) चिहेन चिह्नितं कुरुत-
(i) मनसा सततं ✔ स्मरणीयम्
(ii) वचसा सततं ✔ वदनीयम्
(iii) लोकहितं मम ✔ करणीयम्
(iv) न भोगभवने ✔ रमणीयम्
(v) न सुखशयने ✔ शयनीयम्
(vi) अहर्निशं ✔ जागरणीयम्
(vii) लोकहितं मम ✔ करणीयम्
(viii) न जातु दुःखं ✔ गणनीयम्
(ix) न च निजसौख्यं ✔ मननीयम्
(x) कार्यक्षेत्रे ✔ त्वरणीयम्
(xi) लोकहितं मम ✔ करणीयम्
(xii) खसागरे ✔ तरणीयम्
(xiii) कष्टपर्वते ✔ चरणीयम्
(xiv) विपत्तिविपिने ✔ भ्रमणीयम्
(xv) लोकहितं मम ✔ करणीयम्
(xvi) सदा मया ✔ सञ्चरणीयम्
(xvii) लोकहितं मम ✔ करणीयम्
3. कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुक्त रिक्तस्थानानि पूरयत-
(i) युष्माभिः प्रातः उत्थाय पठनीयम्। (पठ्+अनीयर्)
(ii) जनैः सर्वदा सर्वेषां कल्याणं करणीयम्। (कृ+अनीयर्)
(iii) अस्माभिः सुकार्याणि कर्त्तव्यानि। (कृ+अनीयर्)
(iv) सर्वै: ईशवन्दना स्मरणीया (स्मृ+अनीयर्)
(v) त्वया मधुराणि वचनानि वदनीयानि। (वद्+अनीयर्)
(vi) सैनिकैः दुःखं न गणनीयम्। (गण्+अनीयर्)
(vii) अस्माभिः धर्मः आचरणीयः। (आ+चर्+अनीयर्)
(viii) त्वया वृथा न वदनीयम्। (घच्+अनीयर्)
(ix) जनैः प्रातः जागरणीयम्। (जागृ+अनीयर्)
4. उदाहरणानुसारं लिखत-
शब्द | लिंग | एकवचनम् | द्विवचनम् | बहुवचनम् |
हसनीय | पुल्लिङ्गे | हसनीयः | हसनीयौ | हसनीयाः |
स्त्रीलिङ्गे | हसनीया | हसनीये | हसनीयाः | |
नपुंसकलिङ्गे | हसनीयम् | हसनीये | हसनीयानि | |
पठनीय | पुल्लिङ्गे | पठनीयः | पठनीयौ | पठनीयाः |
स्त्रीलिङ्गे | पठनीया | पठनीये | पठनीयाः | |
नपुंसकलिङ्गे | पठनीयम् | पठनीये | पठनीयानि | |
पानीय | पुल्लिङ्गे | पानीयः | पानीयौ | पानीयाः |
स्त्रीलिङ्गे | पानीया | पानीये | पानीयाः | |
नपुंसकलिङ्गे | पानीयम् | पानीये | पानीयानि | |
ग्रहणीय | पुल्लिङ्गे | ग्रहणीयः | ग्रहणीयौ | ग्रहणीयाः |
स्त्रीलिङ्गे | ग्रहणीया | ग्रहणीये | ग्रहणीयाः | |
नपुंसकलिङ्गे | ग्रहणीयम् | ग्रहणीये | ग्रहणीयानि |
अभ्यास:
1. अधोलिखितवाक्येषु समुचिपदेन रिक्तस्थानपूर्तिं कुरुत-
(i) (बल+इन्) बलिनः जनाः निर्बलेषु बलप्रयोगं न कुर्युः।
(ii) रथिनम् (रथ+इन्) जनम् वार्तायां मग्नं न कर्तव्यम्।
(iii) शिल्पिन्यः (शिल्पि+इन्) बालिकाः कुत्र गताः?
(iv) दण्डिनि (दण्डिन्+इन्) जने न विश्वसिहि।
(v) (कर+इन्) करी वने वसति।
(vi) धनिनः (धन+इन्) गर्विताः न भवेयुः।
(vii) सीता अवदत्-अहम् (कुशली) (कुशल+इन्) अस्ति।
(viii) बलिनौ (बल+इन्) अपमानं न सहेते।
(ix) (गुण+इन्) गुणिना जनेन एतत् कार्यं सुष्ठु कृतम्।
(x) दण्डिनः (दण्डिन्+इन्) दण्डं धारयन्ति।
2. प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य/वियुज्य लिखत-
(i) बुद्धिमती (बुद्धि+मतुप्) नारी प्रशस्यते।
(ii) एतौ छात्रौ (शक्ति+मतुप्) शक्तिमन्तौ स्तः।
(iii) ताः कन्याः गुणवत्यः (गुण+वतुप्) सन्ति।
(iv) लक्ष्मीवान् (लक्ष्मी+वतुप्) लक्ष्म्याः आदरं कुर्यात्।
(v) धनवन्तः (धन+वतुप्) जनाः दरिद्राणां सहायतां कुर्वन्तु।
(vi) सत्यवत्यै (सत्य+वतुप्) नार्यै पुस्तकं यच्छ।
(vii) (सत्य+वतुप्) सत्यवद्भिः जनैः सदा सत्यभाषणं क्रियते।
(viii) बलवता (बल+वतुप्) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।
(ix) (शक्ति+मतुप्) शक्तिमत्या नार्या इदं कार्यं कृतम्|
(x) गुणवद्भिः (गुण+वतुप्) छात्रैः ध्यानेन पठ्यते।
त्व- तल् -प्रत्ययौ
शिक्षकः = एतं श्लोकं पठत-
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते॥
अत्र ‘विद्वत्त्वम्, नृपत्वम्’ इति पदयोः कस्या प्रत्ययस्य प्रयोगः?
छात्राः = गुरुवर! न जानीमः वयम्। कृपया बोधयतु।
शिक्षक: = अत्र भाववाचकस्य त्व’ इति प्रत्ययस्य प्रयोगः।
विद्वस् + त्व = विद्वत्त्वम्
नृप + त्व नृपत्वम्
‘त्त्व’ प्रत्ययस्य प्रयोगः इत्येवं क्रियते
अस्य प्रत्ययस्य प्रयोगेण शब्दः नपुंसकलिङ्गेः भवति। अतः शब्दरूपं ‘फलम्’ इति शब्दवत् निर्मीयते।
उमेशः = यथा दीर्घत्वम्।
शिक्षकः = आम् शोभनम्। एवमेव अन्यशब्दानपि निर्माय वदन्तु।
महेशः = लघुत्वम्, महत्त्वम्
शिक्षकः =अतिशोभनम्। अधुना एतां पङ्क्तिं पठत-का जडता? पाठतोऽप्यनभ्यासः।
अर्थात् यदि पठितस्य अभ्यासः न क्रियते तर्हि जडता आयाति। अत्र भाववाच्ये
एव तल् प्रत्ययः प्रयुक्तः।
रहीमः = किं त्व, तल् च द्वावेव भाववाचकौ प्रत्ययौ?
शिक्षकः = आम् सम्यगवगतम्।
रमेशः = तर्हि किमन्तरं द्वयोः मध्ये?
शिक्षकः = अन्तरं केवलं लिङ्गप्रयोगस्य एव।
छात्राः = कथमिव?
शिक्षक: = तल् प्रत्ययस्य प्रयोगेण शब्दः स्त्रीलिङ्गः भवति। यथा जडता, दीर्घता, लघुता, महत्ता इत्यादिप्रकारेण तल् प्रत्यययुतस्य शब्दस्य रूपाणि ‘बालिका’ शब्दवत् भवन्ति।
इदानीमस्याः तालिकायाः माध्यमेन अवगच्छामः-
लघु = लघुता लघुत्वम्
महत् = महत्ता महत्वम्
दीर्घ = दीर्घता दीर्घत्वम्
गुरु = गुरुता गुरुत्वम्
पवित्र = पवित्रता पवित्रत्वम्
छात्राः = तालिकां पूरयन्ति।
शिक्षकः = अधुना वाक्येषु एतयोः अभ्यासं कुर्मः।
अधः प्रदत्तवाक्येषु त्व/तत्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-
(i) कृष्णसुदाम्नोः मित्रता (मित्र+तल्) विश्वप्रसिद्धा।
(ii) विद्वत्वम् (विद्वान्+त्व) च नृपत्वम् (नृप+त्व) च नैव तुल्यम्।
(iii) कार्येषु दीर्घसूत्रता (दीर्घसूत्र+तल्) कदापि न कर्तव्या।
(iv) आकारस्य (लघु+त्व) लघुत्वं कार्यबाधकः न भवेत्।
(v) पशवः स्वपशुत्वम् (स्वपशु+त्व) तु दर्शयन्ति एव।
(vi) वेदानां (महत्+त्व) महत्वं को न जानाति।
(vii) गङ्गायाः पवित्रता (पवित्र+तल) जगत्प्रसिद्धा।
(viii) मूर्खः स्वमूर्खतां (स्वमूर्ख+तल्) सभायां न प्रदर्शयेत्।
(ix) नदीनां (दीर्घ+तल्) दीर्घता चिन्तनात् परः विषयः।
(x) मित्रेण सह मित्रत्वम् (मित्र+त्व) कदापि न त्याज्यम्।
अभ्यास
1. अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
(i) धार्मिकाः (धर्म+ठक्) जनाः धर्मम् एव आचरन्ति।
(ii) अद्य वार्षिकः (वर्ष+ठक्) परीक्षापरिणामः प्राप्स्यते।
(iii) अद्य वयं ऐतिहासिकानि (इतिहास+ठक्) स्थलानि द्रष्टुं गच्छामः।
(iv) प्राथमिकी (प्रथम+ठक्) शिक्षा बाल्यतः एव भवति।
(v) सैनिकाः (सेना+ठक्) देशं रक्षन्ति।
(vi) अधुना आध्यात्मिकी (अध्यात्म+ठक्) शिक्षा अनिवार्या।
(vii) नागरिकाः (नगर+ठक्) एव देशम् उन्नयन्ति।
(viii) एताः वैज्ञानिकाः (विज्ञान+ठक्) चिन्तायां मग्नाः सन्ति।
2. ‘ठक्‘ प्रत्यययुक्तपदानि चित्वा लिखत- ‘ठक्‘ प्रत्यययुक्तपदानि-
(i) भौतिकी उन्नतिरपि अनिवार्या। भौतिकी
(ii) अधुना वार्षिकं कार्यं सम्पन्नम्। वार्षिकं
(iii) सैनिकाः देशम् उन्नयन्ति। सैनिकाः
(iv) दैविकी विपदा कष्टकरी भवति। दैविकी
(v) एषः सार्वभौमिकः सिद्धान्तोऽस्ति। सार्वभौमिकः
(vi) सार्वकालिकाः उपदेशाः एते। सार्वकालिकाः
(vii) सामाजिकं कार्यम् एव एतत्। सामाजिकं
(viii) वैज्ञानिकाः अन्वेषणे रताः भवन्ति। वैज्ञानिकाः
(ix) भारतस्य भौगोलिकी स्थितिः सुन्दरा अस्ति। भौगोलिकी
(x) एषा कवेः मौलिकी कृतिः। मौलिकी
अभ्यास:
1. शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
(i) इयं छात्रा पठति। (छात्रः/छात्रा)
(ii) बालिकासु प्रथमा अध्ययनशीला अस्ति। (प्रथमः/प्रथमा)
(iii) शोभनानां भोजनानां दात्री भव। (दातृ/दात्री)
(iv) एषा तपस्विनी हवनं करोति। (तपस्वी/तपस्विनी)
(v) गङ्गा एका नदी अस्ति। (नद/नदी)
2. कोष्ठप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः/कुर्वन्त्यः रिक्तस्थानानि पूरयत-
मञ्जूषा
श्रीमती, प्राध्यापिका, नदी, तपस्विन्या, नदीम्, प्रथमा, मातुलानी, बालिकाः, गच्छन्ती, मेधाविनी, छात्राः
(i) इयम् एका नदी अस्ति।
(ii) नदीम् परितः वृक्षाः सन्ति।
(iii) तपस्विन्या सह तस्य पुत्रः अपि प्रवचनं करोति।
(iv) एताः बालिकाः सन्ति।
(v) ताः सर्वाः छात्राः सन्ति।
(vi) प्रथमा वाचाला अस्ति।
(vii) ग्रामं गच्छन्ती श्रमिका श्रान्ता अस्ति।
(viii) एषा बालिका मेधाविनी अस्ति।
(ix) मम मातुलानी विदेशं गच्छति।
(x) श्रीमती रमा एका प्राध्यापिका अस्ति।
3. अधोलिखिते अनुच्छेदे रेखाङ्कितपदानि स्त्रीलिङ्गे परिवर्त्य अनुच्छेदं पुनः लिखत-
एक: बालक: ग्रामे वसति। सः विद्यालयं गच्छति। तेन सह तस्य भ्राता अपि गच्छति। तस्य शिक्षकः तं प्रेम्णा पाठयति। विद्यालये अनेके छात्राः सन्ति। तेषु एकः अत्यधिकः मेधावी अस्ति।
उत्तर : एका बालिका ग्रामे वसति। सा विद्यालयं गच्छति। तया सह तस्याः भ्राता अपि गच्छति। तस्याः शिक्षकः तां प्रेम्णा पाठयति। विद्यालये अनेकाः छात्राः सन्ति। तासु एका अत्यधिका मेधाविनी अस्ति।
