Ch-14-Adarshaprashnapatram, Class-10-sanskrit- (अभ्यासवान् भव:)
Ultimate NCERT Solutions for Ch-14-Adarshaprashnapatram
Updated Solution 2025-2026 Updated Solution 2025-2026
NCERT Solutions for Class 10 Sanskrit-(अभ्यासवान् भव:)
(चतुर्दशः पाठः आदर्शप्रश्नपत्रम्)
(आदर्श प्रश्न पत्र का हल व समाधान)
Ch-14-Adarshaprashnapatram
(NCERT Book)
अभ्यासः
खण्ड – ‘क’
(अपठितः अनुच्छेदः – 10 अङ्काः)
1. अघोलिखितम् अनुच्छेदं पठित्वा यथानिर्देश प्रश्नान् उत्तरत-
बाल्यावस्था जीवनस्य महत्त्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवनं सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति,विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्त्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयासः कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।
(i) एकपदेन उत्तरत- 1 × 2 = 2
(क) बाल्यकाले अवधानपूर्वकं कस्य प्रयासः कर्त्तव्यः?
उत्तर: गुणाधानस्य
(ख) किमर्थं पौष्टिकाहारः ग्रहीतव्यः?
उत्तर: शरीरस्वास्थ्यरक्षायै
(ii) पूर्णवाक्येन उत्तरत- 2 × 2 = 4
(क) जीवनं कदा सुखमयं भवति?
उत्तर: यदि वयं परिश्रमं कुर्मः तदा जीवनं सुखमयं भवति।
(ख) कौ अस्माभिः सह सदैव तिष्ठतः?
उत्तर: बाल्यकाले यादृशाः संस्काराः लभन्ते तादृशः एव-आचारः व्यवहारः च आजीवनम् अस्माभिः सह-तिष्ठतः।
(iii) निर्देशानुसारम् उत्तरत- 1 × 3 = 3
(क) ‘अनवधानमनसा’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत। सावधानमनसा
(ख) ‘महत्त्वपूर्णः कालः’ इत्यनयोः किं विशेषणपदम्? महत्त्वपूर्णः
(ग) ‘बाल्यावस्था जीवनस्य महत्त्वपूर्णः कालः भवति’ इति वाक्ये किं क्रियापदम्? भवति
(iv) प्रदत्तगद्यांशस्य कृते समुचितं शीर्षकं लिखत- 1×1=1
उत्तर:1 शीर्षकः: बाल्यकालस्य महत्त्वम्
खण्ड – ‘ख’
(रचनात्मक – कार्यम् – 15 अङ्काः)
2. भवान् (अनिमेषः) शैक्षिकयात्रार्थं शिक्षकैः सह अरुणाचलप्रदेशं गन्तुमिच्छति। तदर्थम् अनुमतिं प्राप्तये यात्राव्ययार्थं च रूप्यकाणि लब्धुं पितरं प्रति लिखितं पत्रमिदं मञ्जूषाप्रदत्तदानां सहायतया पूरयत- 1/2 × 10=5
मञ्जूषा
अनुमतिः, मातृचरणयोः, रूप्यकाणि, यात्राव्ययार्थम्, व्यस्तः, शैक्षिकयात्रार्थम्, छात्राः, कुशली, यथाशीघ्रम्, भवतः
उत्तर: 2 पितरं पत्रम्
छात्रावासतः
दिनाङ्कः – 01/01/26
पूज्य पितृचरणाः
प्रणतयः।
अत्र अहं सकुशलः स्वाध्ययने व्यस्तः अस्मि। आशासे भवान् अपि कुशली अस्ति। मम विद्यालयात् दशमकक्षायाः अनेके छात्राः शिक्षकैः सह शैक्षिकयात्रार्थं अरुणाचल-प्रदेशं गन्तुम् इच्छन्ति। यदि भवतः अनुमतिः स्यात्, अहमपि तैः सह गन्तुकामोऽस्मि। यात्राव्ययार्थं सहस्ररूप्यकाणि अपि आवश्यकानि। स्वमन्तव्यं सूचयतु। यदि भवतः सम्मतिः अस्ति यथाशीघ्रम् रूप्यकाणि अपि प्रेषयतु। मातृचरणयोः मम प्रणतिः निवेदनीया।
भवतः पुत्रः
अनिमेषः
3. अधः प्रदत्तं चित्रं दृष्ट्वा तदाधारितानि पञ्चवाक्यानि लिखत- 5×1=5
उत्तर: 3
- अस्मिन् चित्रे राम-रावणौ स्तः।
- राम-रावणौ युद्धं कुरुतः।
- रामः – रावणस्योपरि शरसन्धानं करोति।
- रावणः शरप्रहारं कवचेन अवरोधयति।
- रावणस्य हस्ते असिः वर्तते।
अथवा
‘वर्धमानं प्रदूषणम्’ इति विषयमधिकृत्य मञ्जूषातः पदानि चित्वा पञ्चवाक्यात्मकम् अनुच्छेदं लिखत। 1×5=5
मञ्जूषा
वैश्विक- उष्णता, यानानां व्यवहारः, विषाक्तवायुः, अवकरक्षेपणम्, जलप्रदूषणम्, वायुप्रदूषणम्, ध्वनिप्रदूषणम्, कोलाहलः, शुचिपर्यावरणम्, मलिनम्, यन्त्रागारम्
उत्तर: 3 वर्धमानं प्रदूषणम्
वर्धमानं प्रदूषणं विश्वे एकं प्रमुखं समस्या जातमस्ति। वैश्विक-उष्णता च प्रदूषणस्य परिणामेण वृद्धिम् अनुभवति। यानानां व्यवहारः, विशेषत: अधिकं वायुप्रदूषणं, विषाक्तवायुः च जनयति। अवकरक्षेपणं तथा जलप्रदूषणं वर्धमानं अस्मिन काल में दुःखदं परिणामं प्रकटयति। ध्वनिप्रदूषणं च समाजे कोलाहलः उत्पन्नं कर्तुम् आरभते, यः शुचिपर्यावरणम् अस्वस्थं यन्त्रागारम् अपि परिणमयति। अतः अस्मिन समस्यानि समाधानाय, प्रत्येकस्य योगदानं अपेक्ष्यते, यः समाजं शुद्धं स्वस्थं च कर्तुम् सक्षमः हो।
4. अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत-
(i) छात्र विद्यालय जाता है। A student goes to school.
(ii) मैं परिश्रम करता हूँ। I work hard.
(iii) तुम क्या करते हो? What do you do?
(iv) पिता के साथ पुत्र घूमता है। Son Walk with his father.
(v) शिक्षक पाठ पढ़ाते हैं। Teacher teaches the lesson.
उत्तर: 4
(i) छात्रः विद्यालयं गच्छति।
(ii) अहम् परिश्रमं करोमि।
(iii) त्वं किम् करोति?
(iv) पितरं सह पुत्रः भ्रमति।
(v) शिक्षकाः पाठं पठन्ति।
खण्ड – ‘ग‘
(अनुप्रयुक्त-व्याकरणम् – 25अंक:)
5. अधोलिखित-वाक्येषु रेखाङ्कितपदानां सन्धिं विच्छेदं वा कुरुत- 1 ×4= 4
(i) पिताऽस्य किं तपस्तेपे इत्युक्तिः तत् कृतज्ञता। तपः + तेपे
(ii) सेवितव्यो महावृक्षः फलच्छायासमन्वितः। फल+छाया+समन्वितः
(iii) विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्। किञ्चित् + निरर्थकम्
(iv) स एव वह्निः + दहते शरीरम्। वहिर्दहते
6. अधोलिखित- वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत- 1 ×4= 4
(i) यदि अहं कृष्णः वर्णः यस्य सः तर्हि श्रीरामस्य वर्णः कीदृशः? कृष्णवर्णः
(ii) सर्वेषां महत्त्वं विद्यते समयम् अनतिक्रम्य। यथासमयम्
(iii) मिलित्वा प्रकृतेः सौन्दर्यम् रक्षणीयम्। प्रकृतिसौन्दर्यम्
(iv) माता च पिता च वन्दनीयौ। पितरौ/मातापितरौ
7. अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत- 1 ×4= 4
(i) श्रमक्लमपिपासोष्णशीतादीनां सहिष्णु+तल् सहिष्णुता।
(ii) वैज्ञानिकाः विज्ञान + ठक् कथयन्ति यत् पाषाणशिलानां संघर्षणेन कम्पनं जायते।
(iii) बुद्धि + मतुप् बुद्धिमान् सर्वत्र पूज्यते।
(iv) राजसिहंस्य पत्नी बुद्धिमती बुद्धि + मतुप् आसीत्।
8. प्रदत्तेभ्यः विकल्पेभ्यः समुचितं विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत- 1× 3 = 3
(i) त्वया सत्यं कथ्यते। (त्वम्/त्वाम्/त्वया)
(ii) काकः पिकस्य सन्ततिम् पालयति। (सन्ततिः/सन्ततिम्/सन्तत्या)
(iii) पित्रा पुत्राय विद्याधनं दीयते। (ददाति/दीयते/यच्छति)
9. कोष्टके प्रदत्त समयवाचकान् अङ्कान् संस्कृतेन लिखत- 1 ×4= 4
(i) बालकः षडू वादने उत्तिष्ठति। (6:00)
(ii) सः सपादसप्तवादने विद्यालयं गच्छति। (7:15)
(iii) सार्धएकादश वादने विद्यालये अर्धावकाशः भवति। (11:30)
(iv) सः पादोनद्वि वादने विद्यालयात् गृहम् गच्छति। (1:45)
10. मञ्जूषाप्रदत्त – अव्ययपदैः रिक्तस्थानानि पूरयत- 1/2×6=3
मञ्जूषा
यत्र, अद्य, सदा, यदि, तत्र, तर्हि
(i) यदि परिश्रमं कुर्मः तर्हि सफलाः भवामः।
(ii) सदा समयस्य सदुपयोगः करणीयः।
(iii) जीवनम् अद्य दुर्वहं जातमस्ति।
(iv) यत्र हरीतिमा तत्र पर्यावरण शुद्धम्।
11. रेखाङ्कितपदं संशोध्य वाक्यानि लिखत- 1 × 3 = 3
(i) ते नार्यः गल्पं कुर्वन्ति। ताः नार्यः गल्पं कुर्वन्ति।
(ii) अहं परिश्रमं करोति। सः परिश्रमं करोति।
(iii) बालकः कार्यं कुर्वन्ति। बालकाः कार्यं कुर्वन्ति।
खण्ड – ‘घ’
(पठित-अवबोधनम् -30 अङ्काः)
12. अधोलिखितं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत- 1×5=5
कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः, पुत्रं च द्रष्टुं प्रस्थितः। परमर्थकाशर्येन् पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्।
(i) एकपदेन उत्तरत- 1/2 × 2 = 1
(क) निर्धनो जनः भूरि परिश्रम्य किम् उपार्जितवान्? किञ्चिद् वित्तम्
(ख) अर्थकाशर्येन् पीडितः सः केन प्राचलत्? पदातिरेव
(ii) पूर्णवाक्येन उत्तरत- 1 ×1 = 1
(क) निर्धनः जनः वित्तेन किं कृतवान्?
उत्तर: तेन वित्तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः।
(iii) निर्देशानुसारर्म उत्तरत- 1 × 3 =3
(क) ‘धनम्’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत ।
उत्तर: वित्तम्
(ख) ‘निर्धनः जनः’ इत्यनयोः किं विशेषणपदम्?
उत्तर: निर्धनः
(ग) परमर्थकाशर्येन् पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्’ इति वाक्ये ‘सः’ अति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर: निर्धन-जनस्य कृते
13. अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत- 1×5=5
उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गतज्ञानफला हि बुद्धयः॥
(i) एकपदेन उत्तरत- 1/2 × 2 = 1
(क) केन उदीरितः अर्थः गृह्यते? पशुनापि
(ख) का: परेङ्गितज्ञानफलाः भवन्ति? बुद्धयः
(ii) पूर्णवाक्येन उत्तरत- 1×1=1
(क) पण्डितः जनः किम् ऊहति? पण्डितः जनः अनुक्तमप्यूहति।
(iii) निर्देशानुसारम् उत्तरत- 1×3=3
(क) ‘अश्वाः’ इति अर्थे पद्ये किं पदं प्रयुक्तम्? हयाः
(ख) ‘मूर्खः’ इत्यस्य विलोमपदं श्लोकात् चित्वा लिखत। पण्डितः
(ग) ‘हयाश्च नागाश्च वहन्ति बोधिताः’ इति वाक्ये किं क्रियापदम्? वहन्ति
14. अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत- 1×5=5
चाणक्यः = भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः = आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः = भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति।
चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः = (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः = भो श्रेष्ठिन् ! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
(i) एकपदेन उत्तरत- 1/2 × 2 = 1
(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति? प्रियम्
(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति? नन्दस्यैव
(ii) पूर्णवाक्येन उत्तरत- 1×1 =1
(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्?
उत्तर: चन्दनदासेन स चापरिक्लेशः कथमाविर्भवति इति ननु प्रष्टव्याः स्मः।
(iii) निर्देशानुसारम् उत्तरत- 1 ×3 = 3
(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्? अपरिक्लेशः
(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्? अहम् (चन्दनदासः)
(ग) ‘किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्? इष्यते
15. अधोलिखितवाक्येषु रेखाङ्कितपमाधृत्य प्रश्ननिर्माणं कुरुत- 1 × 4 = 4
(i) विद्वांस एवं लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
उत्तर: के लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः?
(ii) समीपे एका नदी प्रवहति।
उत्तर: समीपे का प्रवहति?
(iii) अतिदाक्षिण्येन अलम्।
उत्तर: केन अलम्?
(iv) गहनकानने सा व्याघ्रं ददर्श।
उत्तर: कुत्र सा व्याघ्रं ददर्श?
16. अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत- 1⁄2 × 8 = 4
(i) ‘ त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥
अन्वयः– यः धर्मप्रदां वाचं त्यक्त्वा परुषांवाचं अभ्युदीरयेत् (सः) विमूढधीः पक्वं फलं परित्यज्य अपक्वं भुङ्क्ते।
(ii) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्॥
अन्वयः – सर्वेषु च अपत्येषु जननी तुल्यवत्सला भवति। सा माता दीने पुत्रे तु कृपाईहृदया भवेत्।
अथवा
अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत- 1 ×4= 4
मञ्जूषा
(कार्यम्, सुखप्राप्तेः, कल्याणम्, न्येषाम्)
यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च॥
भावार्थ:- यः नरः आत्मनः कल्याणम् इच्छति, तस्य सुखप्राप्तेः अपि इच्छा अस्ति सः न्येषाम् कृते कदापि अकल्याणकरं कार्यं न कुर्यात् इति अवधातव्यम्।
17. अधोलिखितवाक्यानि घटनाक्रमानुसारं लिखत- 1/2 × 8=4
(i) बुद्धिमती व्याघ्रभयात् मुक्ता जाता।
(ii) ग्रामे राजसिंहः नाम राजपुत्रः वसति स्म।
(iii) गलबद्धशृगालकः व्याघ्र सहसा पलायितः।
(iv) व्याघ्रः शृगालं निजगले बद्ध्वा काननं गतवान्।
(v) तस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(vi) जम्बुकः व्याघ्रं पुनः तत्र गन्तुं प्रेरितवान्।
(vii) इयं व्याघ्रमारी इति विचिन्त्य भयेन व्याघ्रः पलायितः।
(viii) सा पुत्रौ उक्तवती – एकं व्याघ्रं विभज्य खादतम्।
उत्तर: 17 घटनाक्रमानुसारं वाक्यानि-
(ii) ग्रामे राजसिंहः नाम राजपुत्रः वसति स्म।
(v) तस्य भार्या पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(viii) सा पुत्रौ उक्तवती – एकं व्याघ्रं विभज्य खादतम्।
(iv) व्याघ्रः शृगालं निजगले बद्ध्वा काननं गतवान्।
(iii) गलबद्धशृगालकः व्याघ्र सहसा पलायितः।
(vi) जम्बुकः व्याघ्रं पुनः तत्र गन्तुं प्रेरितवान्।
(vii) इयं व्याघ्रमारी इति विचिन्त्य भयेन व्याघ्रः पलायितः।
(i) बुद्धिमती व्याघ्रभयात् मुक्ता जाता।
18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत- 1×3=3
(i) अत्र जीवनं दुर्वहं जातम्। कठिनम
सरलम्/कठिनम्/जटिलम्
(ii) संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते। व्यापाणा
संस्काराणामू/संलापानाम् / व्यापाराणाम्
(iii) तोयैः अल्पैः अपि तरोः पुष्टिः भवति। जलैः
जलैः/त्वग्भि/दुग्धैः।
