Ch-4-Chitravarnan, Class-10-sanskrit- (अभ्यासवान् भव:)
Ultimate NCERT Solutions for Ch-4-Chitravarnananam
Updated Solution 2025-2026 Updated Solution 2025-2026
NCERT Solutions for Class 10 Sanskrit-(अभ्यासवान् भव:)
(चतुर्थ: पाठ: चित्रवर्णनम्)
( चित्र वर्णन, प्रश्न-उत्तर)
Ch-4-Chitravarnan
(NCERT Book)
अभ्यासः
1. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
अग्रजस्य, अनुजस्य, भगिनी, स्वक्रमस्य, रक्षाबन्धनम्, रक्षासूत्रम्, करोति, करिष्यति, मणिबन्धे, मिष्टान्नम्, अन्यम्, पश्चात्, पश्यति, प्रसन्नः, मातापितरौ, दृष्ट्वा, प्रसन्नौ, पर्वणः, बन्धति

उदाहरणवाक्यानि
(i) अत्र रक्षाबन्धनपर्वणः आयोजनं भवति।
(ii) भगिनी अग्रजस्य मणिबन्धे रक्षासूत्रस्य बन्धनं करोति।
(iii) तस्याः अनुजः अपि स्वक्रमस्य प्रतीक्षां करोति।
(iv) अग्रजस्य रक्षाबन्धनं कृत्वा भगिनी अनुजस्य मणिबन्धे अपि रक्षाबन्धनं करिष्यति।
(v) मातापितरौ रक्षाबन्धनं दृष्ट्वा मोदेते।
उत्तर: 1
(i) भातृभगिन्योः पवित्रसम्बन्धस्य वाचकमेतत् पर्वम्।
(ii) भगिनी भात्रे रक्षासूत्रं बद्ध्वा मिष्टान्नं भोजयति।
(iii) पश्चात् भ्राता भगिन्यै रक्षणस्य वचनं यच्छति।
(iv) रक्षाबन्धनस्य अपरं नाम ‘श्रावणी पूर्णिमा’ इति।
(v) पितरौ बालकान् दृष्ट्वा प्रसन्नौ स्तः।
2. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
उदग्रविमानम्, सैनिकः, भोजनपुटकानि, जलौघपीडिताः, वृद्धस्य, लम्बितसोपाने, आरोहयति, पातयन्ति, सहायताम्, छदिषु, उत्थापयन्ति

उत्तर: 2
(i) अस्मिन् चित्रे जलौघपीडिताः जनाः सन्ति।
(ii) सैनिकाः भोजनपुटकानि छदिषु पातयन्ति।
(iii) जनाः भोजनपुटकानि उत्थापयन्ति।
(iv) सैनिकः वृद्धस्य सहायतां कुर्वन् तं उपरि आरोहयति।
(v) लम्बितसोपाने एका महिला उदग्र-विमानं गच्छति।
3. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
पलायितौ, धृत्वा कुर्वन्ति, देशरक्षकेभ्यः सैनिकाः नमः अन्ताराष्ट्रियसीमायाः, अवैधप्रवेशम्, प्रहरिणः, भुशुण्डिं, परितः, पर्वताः, दृष्ट्वा, आतङ्कवादिनौ, देशरक्षकान्, सन्नद्धाः

उत्तर: 3
(i) सैनिकान् दृष्ट्वा आतंकवादिनौ पलायितौ।
(ii) देशरक्षकेभ्यः सैनिकेभ्यः नमः।
(iii) सैनिकाः भुशुण्डिं धृत्वा देशस्य रक्षां कुर्वन्ति।
(iv) अन्ताराष्ट्रियसीमायाः उपरि परितः पर्वताः दृश्यन्ते।
(v) देशरक्षकाः अवैधप्रवेशम् अवरोद्धुं सन्नद्धाः सन्ति।
4. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
चिकित्सकाः, परिचारिकाः, उपवाहनानि, क्रेनयानेन, भीषणदुर्घटनायाः, रेलयानस्य, पतितानि, दुर्घटनायां, व्रणितम्, विपत्तौ, आवश्यकता

उत्तर: 4
(i) इदं रेलयानस्य भीषणदुर्घटनायाः चित्रमस्ति।
(ii) दुर्घटनायां पतितानि उपवाहनानि क्रेनयानेन अपसार्यन्ते।
(iii) परिचारिकाः व्रणितजनस्य परिचारं/उपचारं कुर्वन्ति।
(iv) चिकित्सकाः व्रणितजनं नीत्वा गच्छन्ति।
(v) विपत्तौ धैर्यस्य आवश्यकता भवति।
5. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
यातायातस्य, शिरस्त्राणस्य, दण्डशुल्कम्, प्राप्तिपत्रम्, यातायातरक्षी, सुरक्षायै, धारयित्वा, निर्बाधम्, आमन्त्रणम्, शुल्कप्राप्तिपत्रम्, भवितुं शक्नोति, मुद्रयति, मोटरसाइकिलचालकः, आत्मरक्षायै

उत्तर: 5
(i) इदं यातायातस्य चित्रं वर्तते।
(ii) एकः यातायातरक्षी सुरक्षायै दण्डशुल्कं नयति।
(iii) अपरः यातायातरक्षी दण्डशुल्कं नीत्वा शुल्कप्राप्तिपत्रं मुद्रयति।
(iv) एकः मोटरसाइकिलचालकः आत्मरक्षायै शिरस्त्राणस्य उपयोगं कुर्वन् निर्बाधं गच्छति।
(v) शिरस्त्राणं विना दुर्घटनायाः आमन्त्रणं भवति।
6. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
वृक्षेषु, मण्डूकः, तिस्रः, जलगर्तस्य, नृत्यति, इन्द्रधनुषः, दोलाभिः, टर्र-टर्र इति शब्दम् श्रावणमासस्य, वर्षायाः, अनुभवन्ति, कुर्वन्ति

उत्तर: 6
(i) इदं श्रावणमासस्य वर्षायाः चित्रमस्ति।
(ii) जलगर्तस्य अन्तः मण्डूकाः टर्र-टर्र इति शब्दं कुर्वन्ति।
(iii) वर्षायाम् आकाशे इन्द्रधनुषः भवति।
(iv) अस्मिन् चित्रे एकः मयूरः नृत्यति।
(v) तिस्रः बालिकाः दोलाभिः आनन्दं कुर्वन्ति।
7. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
कारयानयोः आक्रोशपूर्वकम्, क्रद्धौ, दोषारोपणम्, आरक्षी, क्षतिग्रस्ते, कारयाने, क्षमाभावस्य, आवश्यकता, धैर्यस्य, दुर्घटनायाः, विचार्य

उत्तर: 7
(i) इदं कारयानयोः दुर्घटनायाः चित्रं वर्तते।
(ii) क्रुद्धौ मनुष्यौ आक्रोशपूर्वकं परस्परं दोषारोपणं कुरुतः।
(iii) उभे अपि कारयाने क्षतिग्रस्ते स्तः।
(iv) मोटरसाइकिलयानेन एकः आरक्षी आगच्छति।
(v) अस्यां परिस्थितौ क्षमाभावस्य, धैर्यस्य च आवश्यकता भवति।
8. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
आपणम्, स्वास्थ्यवर्धनम्, फलविक्रेता, भक्षणम्, कदलीफलानि, द्राक्षा, मधुकर्कटिका, अमृतफलम्, नारिकेलानि, जम्बूफलानि, ग्राहकाय, तोलयति

उत्तर: 8
(i) अस्मिन् चित्रे एकम् आपणम् अस्ति।
(ii) आपणे कदलीफलानि, द्राक्षा, अमृतफलानि सन्ति।
(iii) आपणे मधुकर्कटिका, नारिकेलानि, जम्बूफलानि अपि सन्ति।
(iv) फलविक्रेता ग्राहकाय फलानि तोलयति।
(v) फलानि स्वास्थ्यवर्धनं कुर्वन्ति।
9. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
धावन-प्रतियोगिता, सप्त बालिकाः, प्रशिक्षकः, सीटिकारवं कर्तुं तत्पराः, विजेतृमञ्चम् तिस्रः, प्रथमस्थाने, तृतीयस्थानम्, स्वास्थ्यवर्धकम्

उत्तर: 9
(i) सप्त बालिकाः धावन-प्रतियोगितायां भागं गृह्णन्ति।
(ii) प्रशिक्षकः सीटिकारवं कर्तुं तत्र तिष्ठति।
(iii) विजेतृमञ्चं तिस्रः बालिकाः सन्ति।
(iv) सप्तासु बालिकासु तिस्रः एव विजेतारः सन्ति।
(v) धावनं स्वास्थ्यवर्धकं भवति।
10. अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-
मञ्जूषा
कृषकः, वृषभौ, स्वेदपूर्णम्, परिश्रमकारणात्, अन्नदाता, मेघानां प्रतीक्षाम्, सूर्यातपे, चालयति कर्षतः, अन्नोत्पादने, हलम् योगदानम्

उत्तर: 10
(i) कृषकः द्वौ वृषभौ नीत्वा क्षेत्रं कर्षति।
(ii) अन्नदाता परिश्रमकारणात् स्वेदपूर्णो भवति।
(iii) कृषकः सूर्यातपे हलम् चालयति।
(iv) सः मेघानां प्रतीक्षां करोति।
(v) अन्नोत्पादने कृषकस्य महत्योगदानम्।
