Ch-1-Apathitavabodhanam, Class-10-sanskrit- (अभ्यासवान् भव:)
Ultimate NCERT Solutions for Ch-1-Apathitavabodhanam
Updated Solution 2025-2026 Updated Solution 2025-2026
NCERT Solutions for Class 10 Sanskrit-(अभ्यासवान् भव:)
(प्रथम: पाठ: अपठितावबोधनम्)
( गद्यांश, प्रश्न-उत्तर व समाधान, भावविस्तार)
Ch-1-Apathitavabodhanam
(NCERT Book)
अभ्यासः
अधोलिखितं गद्यांशं पठित्वा यथानिदेशं प्रश्नान् उत्तरत-
1. धात्रीफलं सर्वेषु ऋतुषु लाभदायकं भवति । धात्रीफलम् ‘आमलकम्’ इत्यपि कथ्यते । शरीरस्य स्वास्थ्यरक्षणाय फलस्यास्य प्रयोगः अवश्यमेव कर्त्तव्यः । इदं फलं नेत्रयोः ज्योतिवर्धनाय, केशानां सौन्द्रर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि भवति । सामान्यतया अस्य प्रयोगः अवलेहरूपेण, उपदंशरूपेण च भवति । इदं रक्तकोशिकानिर्माणे अपि सहायकं भवति । अस्य सेवनेन शरीरे रक्ताल्पता न भवति । ग्रीष्मर्तो फलमिदं शरीरस्य तापम् अपनयति । अस्य सेवनेन शरीरे रक्ताल्पता न भवति । ग्रीष्मर्तौ फलमिदं शरीरस्य तापम् अपनयति । अस्य नियमितसेवनेन स्मरणशक्तिरपि वर्धते । प्राचीनकाले कार्तिकमासस्य नवम्यां तिथौ धात्रीवृक्षस्य अधः सहभोजस्य अपि परम्परा आसीत् । केषुचित् स्थलेषु अधुना अपि एषा परम्परा परिपाल्यते । वृक्षस्य अधः भोजनं पच्यते चेतु भोजनं सुस्वादु स्वास्थ्यवर्धकं च भवतीति अस्माकं पूर्वजानां चिन्तनमासीत् । एतदतिरिच्य सहभोजनेन प्रेम्णः भावोऽपि जागर्ति वर्धते च इत्यपि जनाः आमनन्ति । सर्वतोऽधिकं परम्परेयं धात्रीफलस्य महिमानं प्रकटीकरोति।
अभ्यासः
(i) एकपदेन उत्तरत-
(क) धात्रीफलं कदा लाभदायकं भवति? = सर्वेषु ऋतुषु
(ख) धात्रीफलस्य अपरं नाम किम्? = आमलकम्
(ग) धात्रीफलं कस्मिन् सहायकं भवति? = रक्तकोशिकानिर्माणे
(घ) सहभोजनेन कीदृशः भाव: जागर्ति? = प्रेम्णः भावः
(ii) पूर्णवाक्येन उत्तरत-
(क) धात्रीफलं कथं बहूपयोगि अस्ति?
उत्तर: धात्रीफलं नेत्रयोः ज्योतिवर्धनाय, केशानां सौन्दर्यवृद्धये, त्वचः कान्तिवर्धनाय च बहूपयोगि अस्ति।
(ख) प्राचीनकाले कीदृशी परम्परा आसीत्?
उत्तर: प्राचीनकाले कार्तिकमासस्य नवम्यां तिथौ धात्रीवृक्षस्य अधः सहभोजस्य परम्परा आसीत् ।
(iii) यथानिर्देशं प्रश्नान् उत्तरत-
(क) ‘सर्वेषु ऋतुषु’ इत्यनयोः पदयोः किं विशेषणपदम्?
उत्तर: अत्र ‘सर्वेषु’ इति पदं विशेषणम्।
(ख) ‘क्षीयते’ इति क्रियापदस्य विलोमपदं पाठात् चित्वा लिखता।
उत्तर: ‘वर्धते’ इति विलोमपदम्।
(ग) ‘स्नेहस्य’ इति पदस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
उत्तर: ‘प्रेम्णः’ पदं गद्यांशे प्रयुक्तम्।
(घ) ‘अस्य सेवनेन शरीरे रक्त्ताल्पता न भवति’ इत्यस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर: धात्रीफलस्य (आमलकस्य)
(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षकं लिखत।
उत्तर: सरदार वल्लभभाईपटेलः
2. महान् स्वतन्त्रतासेनानी स्वतन्त्रभारतस्य प्रथमः उपप्रधानमंत्री गृहमन्त्री च लौहपुरुषः सरदार-वल्लभभाईपटेलमहोदयः 1875 तमे वर्षे अक्तूबरमासस्य एकत्रिंशत् तारिकायां जन्म अलभत। प्रान्तानाम् एकीकरणे केन्द्रीयां भूमिकां निर्वहन् पटेलमहोदयः अद्यापि सर्वेषां भारतवासिनां श्रद्धाभाजनः। पटेलमहोदयं प्रति कृतज्ञतां प्रकटयितुं गुजरातप्रान्तस्य तत्कालीनः मुख्यमन्त्री नरेन्द्रमोदीमहोदयः 2013 तमे वर्षे अक्तूबरमासस्य एकत्रिंशत् तारिकायां तस्य मूर्तेः शिलान्यासं कृतवान् । अस्याः विशालकायायाः मूर्तेः निर्माणे पञ्च वर्षाणां कालः उपयुक्तः। तस्यैव जन्मदिवसे अक्तूबरमासस्य एकत्रिंशत् दिनाङ्कः एव भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन मूर्तिरियं राष्ट्राय समर्पिता । इयं प्रतिमा एकतायाः मूर्तिः (स्टैच्यू ऑफ यूनिटी) इति नाम्ना ख्याता अस्ति । इदं स्मारक सरदार सरोवरबन्धतः प्रायशः त्रिकिलोमीटरमितं दूरे साधूबेरनामके उपद्वीपे स्थितमस्ति । अस्याः प्रतिमायाः उच्चता द्वयशीत्यधिकशतमीटरमितम् (182 मी./597 फीट) अस्ति । इयं विश्वस्य उच्चतमा मूर्तिः अस्ति । मूर्तेः उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतित्वस्य च उच्चतायाः सूचिका वर्तते।
अभ्यासः
(i) एकपदेन उत्तरत-
(क) भारतस्य प्रथमः उपप्रधानमन्त्री गृहमन्त्री च कः आसीत्?
उत्तर: लौहपुरुषः सरदारवल्लभभाईपटेलः
(ख) पटेलमहोदयः कस्मिन् केन्द्रीयां भूमिकां निर्वाहितवान्?
उत्तर: प्रान्तानाम् एकीकरणे
(ग) नरेन्द्रमोदीमहोदयेन मूर्तिः कस्मै समर्पिता?
उत्तर: राष्ट्राय
(घ) पटेलमहोदयस्य प्रतिमा केन नाम्ना ख्याता?
उत्तर: एकतायाः मूर्तिः (स्टैच्यू ऑफयूनिटी)
(ii) पूर्णवाक्येन उत्तरत-
(क) कः सर्वेषां भारतीयानां श्रद्धाभाजनः?
उत्तर: सरदारपटेल-महोदयः अद्यापि सर्वेषां भारतवासिनां श्रद्धाभाजनः।
(ख) मूर्तेः उच्चता किं सूचयति?
उत्तर: मूर्तेः उच्चता पटेलमहोदयस्य व्यक्तित्वस्य कृतित्वस्य च उच्चतायाः सूचिका वर्तते।
(iii) यथानिर्देशं प्रश्नान् उत्तरत-
(क) ‘केन्द्रीयां भूमिकाम्’ इत्यनयोः पदयोः किं विशेष्यपदम्?
उत्तर: ‘भूमिकाम्’ इति विशेष्यपदम्।
(ख) ‘तस्यैव जन्मदिवसे समर्पिता’? इत्यस्मिन् वाक्ये तस्य इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर: सरदारवल्लभभाईपटेलस्य
(ग) ‘समीपे’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
उत्तर: दूरे
(घ) ‘महान् स्वतन्त्रतासेनानी जन्म अलभत’ इत्यस्मिन् वाक्ये किं क्रियापदम्?
उत्तर: इत्यस्मिन् वाक्ये ‘अलभत’ इति क्रियापदम्।
(iv) अनुच्छेदस्यास्य कृते समुचितं शीर्षकं लिखत ।
उत्तर: परिश्रमस्य महात्म्यम्
3. जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्रः धनेशः अस्ति। धनेशस्य सर्वाणि कार्याणि परिश्रमेण एव सिध्यन्ति । सफलता परिश्रमिणः पुरुषस्य चरणौ चुम्वति । विद्यार्थी परिश्षेण ज्ञानं लभते, धनार्थी चापि परिश्रमेण एव धनं प्राप्नोति । शक्तेः प्राप्तये अपि परिश्रमः आवश्यकः । ‘उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः’ इति उक्तिः स्पष्टं व्यनक्ति यत् धनस्य देवी लक्ष्मीः उद्योगिनं पुरुषं प्रति गच्छति। अत एव साफल्यं लब्धुं परिश्रमम् अवश्य करणीयम् । अत्यधिकः मेधावी अपि यदि सततं पठनाभ्यासं न करोति तदा असफलः भवति, परं सामान्यमेधासम्पनन्नः अपि अध्ययनशीलः छात्रः सफलतायाः उच्चशिखरं प्राप्नोति- ‘उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथेः’ इति प्राचीनोक्तिः सदैव स्मारयति-कर्मसहचरी इच्छा एव साकाररूपताम् एति । श्रीमद्भगवद्गीता अपि कर्मणः महत्त्वं स्मारयति । अत एव छात्राः सर्वदा परिभ्रमस्य अवलम्बनं कुर्वन्तु, भाग्यस्य शरणं मा गच्छन्तु ।
अभ्यासः
(i) एकपदेन उत्तरत-
(क) साफल्यं लब्धुं किं करणीयम्?
उत्तर: परिश्रमम्
(ख) सर्वाणि कार्याणि केन सिध्यन्ति?
उत्तर: परिश्रमेण
(ग) कः असफलः भवति?
उत्तर: यः सततं पठनाभ्यासं न करोति
(घ) अध्ययनशीलः छात्रः किं प्राप्नोति?
उत्तर: उच्चशिखरम्
(ii) पूर्णवाक्येन उत्तरत-
(क) ‘उद्यमेनैव ………….. मनोरथैः’ इति उक्त्ति: किं स्मारयति?
उत्तर: कर्मसहचरी इच्छा एव साकाररूपताम् एति।
(ख) धनस्य देवी कं प्रति गच्छति?
उत्तर: धनस्य देवी उद्योगिनं पुरुषं प्रति गच्छति।
(iii) यथानिर्देशं प्रश्नान् उत्तरत-
(क) ‘परिश्रमस्य अवलम्बनं कुर्वन्तु’ इति वाक्ये किं क्रियापदम्?
उत्तर: अस्मिन् वाक्ये ‘कुर्वन्तु’ इति क्रियापदम्।
(ख) ‘कुशाग्रबुद्धिः’ इत्यस्य समानार्थकपदं गद्यांशात् चित्वा लिखत।
उत्तर: ‘कुशाग्रबुद्धिः’ इत्यस्य समानार्थकपदं ‘मेधाची’ अस्ति।
(ग) ‘कर्मसहचरी इच्छा’ इत्यनयोः पत्योः किं विशेषणपदम्।
उत्तर: अत्र ‘कर्मसहचरी’ विशेषणपदम्।
(घ) विद्यार्थी परिश्रमेण ज्ञानं लभते इत्यस्मिन् वाक्ये किं कर्तृपदम्?
उत्तर: अस्मिन् वाक्ये ‘विद्यार्थी’ कर्तृपदम्।
(iv) अस्य गद्यांशस्य कृते समुचितं शीर्षकं लिखत ।
उत्तर: जीवनमूल्यानि
4. जीवनस्य मूल्यम् अर्थात् ते मानवीयगुणाः ये मानवजीवनम् उत्कर्षं प्रापयन्ति । तेषु प्रमुखाः दया- सत्य-अहिंसा-अस्तेय – अक्रोधादयः सन्ति। मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति। मनुष्यः वास्तवः मनुष्यः तदैव भवति यदा सः एतैः गुणैः सुशोभितः भवति। सर्वाङ्गीणविकासाय पुस्तकीयज्ञानेन समं नैतिकमूल्यान्यति छात्रैः गृहीतव्यानि। बाल्यावस्थायां मूल्यानां शिक्षा प्रदीयते चेत् व्यक्तित्वस्य सर्वाङ्गीणः विकासः भवति। मानयः स्वकीयं पुरुषार्थं करोति जीवनलक्ष्यं च प्राप्नोति। भारतीयसंस्कृतौ आदिकालतः एव जीवनमूल्यानां प्राधान्यमस्ति। प्राचीनकालादेव भारतीयसंस्कृतेः मूल्यपरकगुणानां स्तुतिः भवति। एतैः गुणैरेव भारतं विश्वगुरुपदं प्राप्नोत्। सम्प्रत्यपि पुनः तत्पदं प्राप्तुं छात्रेषु बाल्यादेव एते संस्काराः स्थापनीयाः। विद्यालयेषु अध्ययनेन सह जीवनमूल्यशिक्षायाः आवश्यकता वर्तते। प्रार्थनासभायामपि एषा शिक्षा स्वीकर्तुं शक्यते।
अभ्यासः
(i) एकपदेन उत्तरत-
(क) मानवः स्वकीयं पुरुषार्थं कृत्वा किं प्राप्नोति?
उत्तर: जीवनलक्ष्यम्
(ख) कस्य उत्थानाय दयादिगुणानां महती आवश्यकता?
उत्तर: मानवजीवनस्य
(ग) सर्वाङ्गीणविकासाय केन समं नैतिकमूल्यान्यपि गृहीतव्यानि?
उत्तर: पुस्तकीयज्ञानेन
(घ) केषु बाल्यादेव एते संस्काराः स्थापनीयाः?
उत्तर: छात्रेषु
(ii) पूर्णवाक्येन उत्तरत-
(क) मनुष्यः वास्तवः मनुष्यः कैः गुणैः भवति?
उत्तर: मनुष्यः वास्तवः मनुष्यः दया- सत्य-अहिंसा – अस्तेय – अक्रोधादिभिः गुणैः भवति।
(ख) प्राचीनकालादेव भारतं विश्वगुरुपदं कथं प्राप्नोत्?
उत्तर: भरतीयसंस्कृतेः मूल्यपरकगुणानां कारणेन भारतं विश्वगुरुपदं प्राप्नोत्।
(iii) यथानिर्देशम् उत्तरत-
(क) ‘सर्वाङ्गीणः विकासः’ अत्र विशेषणपदं किम्?
उत्तर: अत्र ‘सर्वाङ्गीणः विशेषणपदम्।
(ख) ‘भारतं विश्वगुरुपदं प्राप्नोत्’ अत्र प्राप्नोत् इति क्रियापदस्य कर्तृपदं किम्?
उत्तर: ‘भारतम्’ अत्र प्राप्नोत् इति क्रियापदस्य कर्तृपदम्।
(ग) गद्यांशे ‘सज्जितः’ इति पदस्य कृते पर्यायपदं किं प्रयुक्तम्?
उत्तर: सुशोभितः
(घ) ‘मानवजीवनस्य उत्थानाय एतेषां महती आवश्यकता भवति’ अत्र ‘एतेषां’ सर्वनामपदं कस्मै प्रयुक्तम्? अत्र एतेषां सर्वनामपदं
उत्तर: दया-सत्य-अहिंसा-अस्तेय-क्रोधादीनां गुणानां कृते प्रयुक्तम्।
(iv) अस्य गद्यांशस्य उचितं शीर्षकं लिखत।
उत्तर: दूरतः पर्वताः रम्याः
5. एकस्मिन् विद्यालये नवमकक्षायाः छात्रेषु अकिञ्चनः इति नामा एकः छात्रः आसीत्। कक्षायाः सर्वे छात्राः सम्पन्नपरिवारेभ्यः आसन्, परन्तु अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थश्रेण्याः कर्मकरः आसीत्। इतरान् सम्पन्नान् छात्रान् दृष्ट्वा प्रायः अकिञ्चनस्य मनसि हीनभावना प्राविशत्। सः अचिन्तयत् एतेषां सहपाठिनां जीवनं धन्यम् अस्ति। धिक् मम अभावपूर्णं जीवनम् । मम सहपाठिनां जीवनं पर्वतस्य इव उच्चम् मम च जीवनं धूलिवत् निम्नम्। यदा सः एवं चिन्तयति स्म तदैव वैभवः तम् अवदत् भोः मित्र! अहं त्वत्तः गणितं पठितुम् इच्छामि। किं त्वम् अद्य सायङ्काले मम गृहम् आगन्तुं शक्नोषि। अकिञ्चनः वैभवस्य आमन्त्रणं स्वीकृत्य सायङ्काले यदा तस्य गृहम् अगच्छत् तदा सः अपश्यत् यत् वैभवस्य गृहे मातापितरौ अनुपस्थितौ आस्ताम् । वैभवः तस्मै असूचयत् यत् रात्रौ विलम्बेन एव तौ गृहम् आगच्छतः। वैभवस्य विषादपूर्णं जीवनं दृष्ट्वा अकिञ्चनः अबोधयत् यत् तस्य गृहे मातापित्रोः अधिकसान्निध्येन तस्य एव जीवनं वरम् न तु वैभवस्य । सत्यमेवास्ति – दूरतः पर्वताः रम्याः। इति
अभ्यासः
(i) एकपदेन उत्तरत-
(क) अकिञ्चनस्य कक्षायाः अन्ये छात्राः कीदृश-परिवारेभ्यः आसन्?
उत्तर: सम्पन्नपरिवारेभ्यः
(ख) अकिञ्चनस्य मनसि किम् प्राविशत्?
उत्तर: हीनभावना
(ii) पूर्णवाक्येन उत्तरत-
(क) अकिञ्चनस्य पिता कः आसीत्?
उत्तर: एकस्मिन् कार्यालये चतुर्थश्रेण्याः कर्मकरः आसीत्।
(ख) अकिञ्चनः हीनभावनया किम् अचिन्तयत्?
उत्तर: सः अचिन्तयत् एतेषां सहपाठिनां जीवनं धन्यम् अस्ति।
(iii) यथानिर्देशम् उत्तरत-
(क) ‘सम्पन्नान्’ इति पदस्य विशेष्यपदं किम् अस्ति?
उत्तर: ‘छात्रान्’ इति विशेष्यपदम्।
(ख) ‘आस्ताम्’ इति पदस्य कर्तृपदं किम् अस्ति?
उत्तर: ‘मातापितरौ’ इति कर्तृपदम्।
(ग) ‘निकटतः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर: ‘सान्निध्येन’ इति विलोमपदं गद्यांशे प्रयुक्तम्।
(घ) ‘वैभवः’ तम् अवदत्’ इति वाक्यांशे ‘तम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर: तम् इति सर्वनामपदं ‘अकिञ्चनस्य’ कृते प्रयुक्तम्।
(iv) गद्यांश पटित्वा यथोचितं शीर्षकं लिखत।
उत्तर: प्रदूषणानि
6. विधात्रा निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी। प्रकृतेः शोभा वस्तुतः अतीव आह्लादकारी, परं निरन्तरं विकासशीलैः मानैवः विकासेन सह प्रदूषणमति वर्धितं येनास्माकमेव स्वास्थ्यहानिः भवति। वायुप्रदूषणम्, ध्वनिप्रदूषणम्, जलप्रदूषणम् एतत् त्रिविधं प्रदूषणमेव मुख्यतया सर्वं वातावरणम् आकुलीकरोति। वायुप्रदूषणेन श्वासग्रहणे काठिन्यं वर्धते। एतत् सर्वेषां स्वास्थ्याय हानिकरं सिध्यति। ध्वनिप्रदूषणं मार्गेषु वाहनानां ‘पों-पों’ इति शृङ्गवादनेनः ध्वनिविस्तारकयन्त्रैश्चापि भवति। अनेन श्रवणशक्तेः हानिर्भवति। प्रदूषितजलोपयोगः तु सर्वेषां व्याधीनां मूलभूतमेव। तस्मादस्माकं सर्वेषामेव कर्तव्यमिदं यदत्रतत्रसर्वत्र अवकररहितस्य वातावरणस्य निर्माणं वयं कुर्याम, येन वायुप्रदूषणम् अस्माकं स्थास्थ्यं नाशयितुं सक्षमं न भवेत् । तथैव ध्वनिप्रदूषणं जलप्रदूषणञ्चापि रोद्धुम् वयं सर्वे मिलित्वैव प्रयासं कृत्वा – सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां बलं प्राप्नुयाम।
अभ्यासः
(i) एकपदेन उत्तरत-
(क) मुख्यतया प्रदूषणं कतिविधं भवति?
उत्तर: त्रिविधम्
(ख) ध्वनिप्रदूषणेन कस्याः हानिः भवति?
उत्तर: श्रवणशक्त्ते:
(ग) केन निर्मिता इयं सृष्टिः अतीव सौन्दर्यमयी?
उत्तर: विधात्रा
(घ) सर्वैः मिलित्वा प्रदूषणावरोधाय किम् विधेयम्?
उत्तर: प्रयासम्
(ii) पूर्णवाक्येन उत्तरत-
(क) अद्यत्वे अस्माकं स्वास्थ्यहानिः कथं भवति?
उत्तर: विकासशीलैः मानवैः विकासेन सह प्रदूषणमपि वर्धितं येनास्मांक स्वास्थ्यहानिः भवति।
(ख) वयं मिलित्वा कां भावनां बलं प्राप्नुयाम?
उत्तर: सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति भावनां बलं प्राप्नुयाम।
(iii) यथानिदेशमुत्तरत-
(क) सततम्/अनवरतम् इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तर: ‘निरन्तरम्’ इति पदम् अनुच्छेदे प्रयुक्तम्।
(ख) ‘क्षीयते’ इति पदस्य विपरीतार्थकं पदम् अनुच्छेदात् चित्वा लिखत।
उत्तर: ‘वर्धते’ इति पदं विपरीतार्थकम्।
(ग) ‘सौन्दर्यमयी सृष्टिः’ अत्र विशेष्यपदं किम्?
उत्तर: अत्र ‘सृष्टि: ‘ विशेष्यपदम्।
(घ) ‘विकासेन सह प्रदूषणमपि वर्धितम् येन स्वास्थ्यहानिः भवति’ अत्र ‘भवति’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तर: अत्र ‘स्वास्थ्यहानिः’ इति कर्तृपदम्।
(iv) अस्य अनुच्छेदस्य कृते समुचितं शीर्षक लिखत।
उत्तर: सर्वसमस्यानां मूलं जनसंख्यावृद्धिः
7. अद्यत्वे यत्र तत्र सर्वत्र वयं पश्यामः यत् उष्णतायाः प्रभावः दिनानुदिनं वर्धते । जनसङ्ख्यावृद्धेः कारणात् भवनानां निर्माणस्य आवश्यकता वृद्धिमाप्नोति । एतस्मात् कारणात् वृक्षाः कर्त्यन्ते, वनानि क्षेत्राणि चाऽपि विनाश्यन्ते, अनेन पर्यावरणे असन्तुलनात् वैश्विकी उष्णता वर्धते । जीवाश्मेन्धनस्य ज्वालनेन विषाक्तवायूनाम् उत्सर्जने वृद्धिर्जायते यतः सौरविकिरणं भूमेः वातावरणे निबद्ध इव तिष्ठति, तापमानं च निरन्तरं वर्धमानम् एवास्ति । एतादृश्याः स्थितेः निराकरणाय अनियन्त्रितम् औद्योगिकरणं निवारणीयम् । एतदेव वस्तुत सम्पूर्णविश्वस्य कृते समस्याम् उत्पादयति । अतः सवैः मिलित्वैव स्थितेः संशोधनाय प्रयासः करणीयः । एतदर्थम् नेत्रयोः ऊर्जार्थम् उपायान्चेषणं करणीयं, सामान्यविद्युदपेक्षया पवनोर्जसं, सौरोर्जसं प्रति च ध्यानं दातव्यम् । वृक्षकर्तनमवरुध्य अधिकाधिकं वृक्षारोपणं कृत्वा वनसंरक्षणं प्रत्यपि ध्यानं दातव्यम्।
अभ्यासः
(i) एकपदेन उत्तरत-
(क) कस्य ज्वालनेन विषाक्तवायूनाम् उत्सर्जने वृद्धिर्जायते? = जीवाश्मेन्धनस्य
(ख) कीदृशम् औद्योगीकरणं निवारणीयम्? = अनियन्त्रितम्
(ग) कस्मिन् असन्तुलनात् वैश्विकी उष्णता वर्धते? = पर्यावरणे
(घ) वृक्षारोपणं कृत्वा किं प्रत्यपि ध्यानं दातव्यम्? = वनसंरक्षणम्
(ii) पूर्णवाक्येन उत्तरत-
(क) वैश्विकी उष्णता कथं वर्धते?
उत्तर: वृक्षाः कर्त्यन्ते, वनानि क्षेत्राणि चाऽपि विनाश्यन्ते, अनेनपर्यावरणे असन्तुलनात् वैश्विकी उष्णता वर्धते।
(ख) वैश्विकोष्णतायाः स्थितेः संशोधनाय ऊर्जसं प्रति कथं ध्यानं दातव्यम्?
उत्तर: एतदर्थं नेत्रयोः ऊर्जार्थम् उपायान्वेषणं करणीयं सामान्य-विद्युदपेक्षया पवनोर्जसं, सौरोर्जसं प्रति
च ध्यानं-दातव्यम्।
(iii) यथानिर्देशम् उत्तरत-
(क) ‘दूरीकरणाय’ अस्य कृते किं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तर: ‘निराकरणाय’ इति पदम् अनुच्छेदे प्रयुक्तम्।
(ख) ‘वृक्षकर्तनम्’ इति पदस्य विपरीतार्थकपदम् अनुच्छेदात् चित्वा लिखत।
उत्तर: ‘वृक्षारोपणम्’ इति विपरीतार्यकपदम्।
(ग) ‘उष्णतायाः प्रभावः दिनानुदिनं वर्धते’ अस्मिन् वाक्ये ‘वर्धते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तर: ‘उष्णतायाः प्रभावः’ इति कर्तृपदम्।
(घ) ‘ अनियन्त्रितम् औद्योगीकरणम्’ अत्र विशेषणपदं किम्?
उत्तर: अत्र ‘अनियन्त्रितम्’ इति विशेषणपदम्।
(iv) अस्य अनुच्छेदस्य कृते समुचितं शीर्षक लिखत।
उतर: प्रकृतेः संरक्षणपूर्वकं विकासः
8. मानवः विकासशीलः । वयं पश्यामः यत् अस्माकं देशस्य जनसङ्ख्या सुरसामुखमिव सतसं प्रवर्धमाना अस्ति । अस्मात् कारणात् प्रचुरनिवास-स्थानानाम् आवश्यकता अनुभूयते । एतत्कृते सततविकासे रतः मानवः नवीनाविष्कारपरम्परायां लघुस्थाने भूमिकभवनानां निर्माणं कृतवान् ।
एतादृशेषु भवनेषु विविधानि तलानि भवन्ति येषु अधिकाणिनरिमारेप्यः निवासव्यवस्था कर्तुं शक्यते । अन्न उन्नयनयन्त्रेण (लिफ्ट इति अनेन) उपरिगणनम् अथः आगमनं च अतीव सुकरं पयति । अत एव जनाः एतादृशानि भवनानि प्रति आकृष्टाः भवन्ति । अणत्वे नगरेषु महानरेषु च बहूभूमिकमममामां प्रचलनमेव वर्तते । एतेषां भवनानां परिसरे एव देवालयः, तरणतालः, समाजसदनं, ‘जिम’ इति व्यायामस्थानम्, उप्पानम् इत्यादीनि उपयोगीनि सुविधाप्रदायक साधनानि अपि भवन्ति । अतिरशोषयमेतत् सर्वं परं विकास प्रति अन्यथावनशीलः मानवः प्रकृतेः उपेक्षां करोति इति अनुचितं प्रतीयते । अस्माभिः प्रकृतिमातुः संरक्षणपूर्वकं विकासस्य दिशि प्रयतितव्यम् ।
अभ्यासः
(i) एकपदेन उत्तरत-
(क) जनसङ्ख्या कथम् वर्धते?
उत्तर: सुरसामुखमिव
(ख) बहुभूमिक-भवनेषु उपरिगमनम् अधः आगमनं केन सुकरं भवति?
उत्तर: उन्नयनयन्त्रेण (लिफ्ट इति अनेन)
(ग) विकास प्रति अन्धधावनशीलः मानवः कस्याः उपेक्षां करोति?
उत्तर: प्रकृतेः
(घ) नगरेषु महानगरेषु च केषां प्रचलनं वर्तते?
उत्तर: बहुभूमिकभवनानाम्
(ii) पूर्णवाक्येन उत्तरत-
(क) प्रचुरनिवासस्थानस्य कृते मानवः किं कृतवान्?
उत्तर: एतत्कृते सतसनिकासे रतः मानवः नवीनाविष्कार – परम्परायांलघुस्थाने बहुभूमिकषवनानां निर्माणं कृतवान्।
(ख) बहुभूमिकभवनानां परिसरे कानि सुविधासाधनानि भवन्ति?
उत्तर: एतेषां भवनानां परिसरे एव देवालयः, तरणतालः, समाजसदनं, (जिम) इति व्यायामस्थानम्, उधानम् इत्यादीनि उपयोगिनी सुबिधासाधनानि – भयथन्ति।
(iii) यथानिर्देशम् उत्तरत-
(क) ‘मानवः बहुभूमिकभवनानां निर्माणं कृतवान्’ -अत्र किं क्रियापदम्?
उत्तर: ‘अन कृतवान्’ क्रियापदम्।
(ख) ‘एतादृशानि भवनानि’ – अनयोः पदयोः किं विशेष्यपदम्?
उत्तर: अनयोः पदयोः ‘भवनानि’ विशेष्यपदम्।
(ग) ‘अद्यत्वे बहूभूमिकभवनानां प्रचलनं वर्तते’ -अत्र किम् अव्ययपदम्?
उत्तर: अत्र ‘अद्यत्वे’ अव्ययपदम्।
(घ) ‘उचित’- इति पदस्य किं विपरीतार्थकं पदम् अनुच्छेदे प्रयुक्तम्?
उत्तर: ‘अनुचितम्’ इति पदम् अनुच्छेदे प्रयुक्तम्।
(iv) अस्य अनुच्छेदस्य कृते समुचितं शीर्षक लिखत।
उत्तर: प्रकृतिसंरक्षणम्
