Ch-13-Mishritabhyasah, Class-10-sanskrit- (अभ्यासवान् भव:)

Ultimate NCERT Solutions for Ch-13-Mishritabhyasah

Updated Solution 2025-2026                               Updated Solution 2025-2026

NCERT Solutions for Class 10 Sanskrit-(अभ्यासवान् भव:)

 (त्रयोदशः पाठः मिश्रिताभ्यासः)

(मिश्रित अभ्यास,पत्र,अनुच्छेद, प्रश्न-उत्तर व समाधान)

Chapter-13-Mishritabhyasah

(NCERT Book)
अभ्यासः 

(i) एकपदेन उत्तरत-

(क) कः हतोत्साहः अभवत्?

उत्तर: क) सुवीरः

(ख) असफलतायाः कारणात् सुवीरस्य मनसि कस्य भावना जागृता?

उत्तर: ख) आत्मघातस्य

(ग) पिपीलकः भित्तौ किं प्राप्नोति?

उत्तर: ग) मिष्टान्नं

(घ) सुवीरः पुनः पुनरभ्यासेन किं स्थानं प्राप्तवान्?

उत्तर: घ) विशिष्टं


(ii) पूर्णवाक्येन उत्तरत-

(क) सुवीरः आत्मघातस्य भावनां निन्दयन् किं चिन्तयति?

उत्तर: क) सः चिन्तयति यत् यद्येष पिपीलकः सततप्रयासेन सफलः भवितुं शक्नोति तर्हि न किमपि असम्भवं जगति।

(ख) के वसुधायां वसूनि प्राप्नुवन्ति?

उत्तर: ख) परिश्रमशीलाः वीराः एव तानि (वसूनि) प्राप्नुवन्ति।


(iii) यथानिर्देशम् उत्तरत-

(क) ‘सः अन्ततः भित्तिम् आरोहति’ – अत्र किम् अव्यय-पदम्?

उत्तर: क) अत्र ‘अन्ततः ‘ अव्यय पदम्।

(ख) ‘संसारे’ इति पदस्य किं समानार्थकपदम् अनुच्छेदे प्रयुक्तम्?

उत्तर: ख) संसारे इति पदस्य समानार्थकपदम् ‘जगति’। अनुच्छेदे प्रयुक्तम्।

(ग) ‘तस्य विवेकः जागृतः अभवत्’ अत्र किं कर्तृपदम्?

उत्तर: ग) अत्र तस्य (सुवीरस्य) कर्तृपदम्।

(घ) ‘वसुधायां बहूनि वसूनि सन्ति’ – अत्र किं विशेषणपदम्?

उत्तर: घ)  अत्र ‘बहूनि ‘ विशेषणपदम्।


2. ‘आत्मघातः कस्याः अपि समस्यायाः समाधानं न भवति’ एतद्विषयम् अधिकृत्य एकम् लघुम् अनुच्छेदं लिखत-

उत्तर: 2)       आत्मघातः कस्याः अपि समस्यायाः समाधानं न भवति। जीवनं स्वयं ईश्वरस्य दत्तं महत्तरं वरं अस्ति। प्रत्येकस्य जीवनस्य मूल्यं अत्यन्तं महत्त्वपूर्णं अस्ति। समस्या वा दुःखं यदा प्रबलं भवति, तदा धैर्यं, साहसं च धारणीयम्। आत्मघातः केवलं स्वजीवनं समाप्तं न करिष्यति, अपितु स्वजनानां हृदयं विदीर्णं करिष्यति। प्रत्येक समस्या समाधानं सह आगच्छति। आत्मघातस्य मार्गः केवलं अन्धकारस्य प्रतिफलं ददाति। अतः जीवनस्य प्रत्येक क्षणं आदरेण, सकारात्मकतया च स्वीकर्तव्यम्। कठिनताः च निश्चितं समाप्तिं प्राप्नुयुः, धैर्यमेव उपायः।


3. ‘पठनस्य के लाभाः- इति वर्णनं कुर्वन्तः मित्रं प्रति पत्रमेकं लिखत-

उत्तर: 3

प्रिय मित्राय,
सस्नेहम् नमः।

त्वं कथमसि? आशासे सर्वं कुशलमस्ति। अद्य अहं पठनस्य लाभानां विषये विचारं कुर्वन् त्वां प्रति लिखामि।

पठनं सर्वेषां विद्यानां मूलं भवति। पठनेन मनः तेजस्वि भवति। ज्ञानं वर्धते, चित्तं स्थिरं च भवति। पुस्तकम् मित्रवत् व्यवहारं करोत्यमरं च ज्ञानं प्रददाति।

पठनस्य माध्यमेन मनुष्यः समाजे आदरणीयः भवति। अपि च, पठनं मनोरंजनस्य साधनमपि भवति। महापुरुषाणां जीवनचरित्रं, सुभाषितानि, चाणक्यनीतिः च पठित्वा, वयं उत्तमजीवनाय प्रेरणां प्राप्नुमः।

अतः पठनं केवलं विद्यानं न, अपितु जीवनस्य आलोकः अपि अस्ति। त्वं अपि नित्यं पठनेन स्वज्ञानं वर्धय।

सस्नेहम्,
तव स्नेही,
[
तव नाम]।


4. सन्धिच्छेदः सन्धिः वा क्रियताम्-

(i) हतोत्साहः                  =              हतः + उत्साहः

(ii) विवेकः + जागृतः     =              विवेकोजागृतः

(iii) सः + अन्ततः            =              सान्ततः

(iv) एतद्विचिन्त्य              =              एतत् + विचिन्त्य


5. समासं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-

(i) सुवीरः हतः उत्साहः यस्य सः भूत्वा एकस्मिन् कोणे तिष्ठति।

  सुवीरः हतोत्साहितः भूत्वा एकस्मिन् कोणे तिष्ठति।

 (ii) तस्य मनसि आत्मघातस्य भावना जागृता।

   तस्य मनसि आत्मनः घातस्य’ भावना जागृता।

(iii) सः अभ्यासं कुर्वन् कक्षायां विशिष्टं स्थानं प्राप्तवान्।

    सः अभ्यासं कुर्वन् कक्षायां विशिष्टस्थानं’ प्राप्तवान्।

(iv) वत्स! वीरैः भोग्या वसुन्धरा।

   वत्स! वीर भोग्या वसुन्धरा।


 6. उचित-प्रत्ययप्रयोगेण स्क्तिस्थानानि पूरयत-

(i) पठनम् अरुचिकरं मन्यमानाः (मन् + शानच्) छात्राः सफलाः न भवन्ति।

(ii) सततप्रयासेन मन्दोऽपि सफलः भवितुं (भू + तुमुन्) शक्नोति।

(iii) अस्मिन् वर्षे अहम् कक्षायां विशिष्टं स्थानं प्राप्तवान्। (प्र + आप + क्त्तवतु)

(iv) पुनः-पुनः पतित्वा अपि हतोत्सहितः न भवितव्यः। (भू + तव्यत्)


7. प्रदत्तवाक्यानां वाच्यपरिवर्तनम् कृत्वा लिखत-

(i) सुवीरः एकस्मिन् कोणे तिष्ठति।                                   =              सुवीरेण एकस्मिन् कोणे स्थीयते।

(ii) पिपीलकः अन्ततः भित्तिम् आरोहति।                        =              पिपीलकेन अन्ततः भित्तिः आरुहूयते।

(iii) शिक्षकेण तस्य प्रशंसा क्रियते।                                   =              शिक्षकः तस्य प्रशसां करोति।

(iv) परिश्रमशीलै। वीरैः एव वसूनि प्राप्यन्ते।                     =              परिश्रमशीलाः वीराः एव वसूनि प्राप्नुवन्ति।


8. प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत-

(i) उसका विवेक जागृत हो जाता है।                              =              तस्य विवेको जागृतः भवति।

(ii) उसने वृक्ष पर चढ़ते हुए साँप को देखा।                     =              सः वृक्षमधिरूढं सर्पं दृष्टवान्।

(iii) हमें पुनः-पुनः पाठों का अभ्यास करना चाहिए।       =              अस्माभिः पुनः-पुनः पाठानाम् अभ्यासः करणीयः।

(iv) मुझे पढ़ना अच्छा लगता है।                                       =              मह्यं पठनं रोचते।


9. प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत-

(i) बालकः एकस्मिन् कोणे तिष्ठति।

(ii) सः भित्तिम् आरोहन्तं पिपीलकं पश्यति।

(iii) वसुधायां बहूनि वसूनि सन्ति।

(iv) अहम् उत्साहितः भूत्वा तत्रागच्छम्।

उत्तर: 9 शुद्ध वाक्यानि:

(i) बालकः एकस्मिन्नेव कोणे तिष्ठति।
(ii) सः भित्तिं आरोहन्तं पिपीलकं पश्यति।
(iii) वसुधायां बहूनि रत्नानि सन्ति।
(iv) अहम् उत्साहितः सन् तत्र आगच्छम्।


अभ्यासः II

1. लिखितमनुच्छेदं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

वयं सर्वे सुखम् इच्छामः। कोऽपि दुःखं नैव इच्छति। अतः दुःखानां विनाशं कथं भवति, इति ज्ञातव्यम्। गीतायाम् अर्जुनं प्रति श्रीकृष्णः अकथयत्, “प्रसादे सर्वदुःखानां हानिरस्योपजायते।” अतः सर्वेषां दुःखानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते। विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक-प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थितिषुः विरुध्य विजयम् अधिगच्छन्ति। प्रियजनस्य रुग्णतायां ये सेवां कृत्वा प्रसन्नाः भवन्ति ते न केवलम् प्रियजनस्य दुःखस्य अपितु स्वदुःखस्य अपि विनाशं कृत्वा भूयोऽपि प्रसन्नाः भवन्ति, परन्तु ये आत्मनः परस्य वा रोगं, समस्यां वा दृष्ट्वा केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु वृद्धिः एव भवति। अतः विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

(i) एकपदेन उत्तरत-

(क) प्रसादे केषां हानिः भवति?

उत्तर: क) सर्वदुःखानां

(ख) ये समस्यायां प्राप्तायां केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु किं भवति?

उत्तर: ख) वृद्धिः एव

(ii) पूर्णवाक्येन उत्तरत-

(क) प्रतिकूलपरिस्थितीः विरुध्य के विजयम् अधिगच्छन्ति?

उत्तर: क) विपरीतपरिस्थितिषु ये धैर्यं न त्यजन्ति ते सर्वदा आन्तरिक प्रसन्नतायाः माध्यमेन प्रतिकूलपरिस्थितीः विरुध्य विजयम् अधिगच्छन्ति।

(ख) किं कदापि न कर्तव्यं किम् च न त्याज्यम्?

उत्तर: ख) विषादः कदापि न कर्तव्यः प्रसन्नता च कदापि न त्याज्या।

(iii) निर्देशानुसारम् उत्तरत-

(क) ‘पराजयम्’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?

उत्तर: क) ‘विजयम्’ इति पदं गद्यांशे प्रयुक्तम्।

(ख) ‘तेषाम् दुःखेषु वृद्धिः भवति’ इति वाक्यांशे ‘भवति’ इति क्रियापदस्य कर्तृपदं किम् अस्ति?

उत्तर: ख) वृद्धिः इति वाक्यांशे-कर्तृपदम्।

(ग) ‘सर्वेषाम्’ इति सर्वनामपदम् अत्र कस्मै प्रयुक्तम्?

उत्तर: ग) सर्वेषाम् इति पदं दुःखानां कृते प्रयुक्तम्।

(घ) ‘स्वस्य’ इति पदस्य किं पर्यायपदम् अत्र आगतम्?

उत्तर: घ) आत्मनः इति पदम् अत्र आगतम्।

(iv) गद्यांशस्य कृते समुचितं शीर्षकं लिखत।

उत्तर: iv) प्रसन्नता-भावः


2. प्रसन्नतायाः महत्त्वविषये पञ्चवाक्यमितम् अनुच्छेदं सरलसंस्कृतेन लिखत-

उत्तर: 2- प्रसन्नतायाः महत्त्वम्

प्रसन्नता जीवनस्य आधारः अस्ति। यदि मनः प्रसन्नं भवति, तदा सर्वकार्याणि सरलतया सम्पन्नानि भवन्ति। प्रसन्नतया स्वास्थ्यं च उत्तमं भवति। दुःखः अपि प्रसन्नतया शम्यते। अतः जीवने सर्वदा प्रसन्नः भवितव्यम्।


3. गृहे पितुः रुग्णतायाः कारणेन भवतः/भवत्याः मित्रम् दुःखितः अस्ति। तं सान्त्वयन् पत्रमेकं सरलसंस्कृतेन लिखत-

उत्तर: 3- सान्त्वनापत्रम्

प्रिय मित्र,
सप्रेम नमः।

तव पितुः रुग्णतायां दुःखं महत् अनुभूतवान्। ईश्वरं प्रार्थये यथा ते पितरं शीघ्रं स्वास्थ्यलाभं दद्यात्। त्वं चिंतां मा कुरु, सर्वं शुभं भविष्यति। यदि किञ्चित् साहाय्यं अपेक्ष्यते, मम साहाय्यं सदा उपलब्धम् अस्ति।

त्वदीयः/त्वदीया,
[तव नाम]


4. अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य सन्धिं/सन्धिविच्छेदं कुरुत-

(i) हाहाकारेण तु दुःखेषु वृद्धिः + एव भवति।                 =              वृद्धिरेव

(ii) मनसः प्रसन्नता तु अत्यावश्यकी।                              =              अति + आवश्यकी

(iii) कः + अपि दुःखं नैव इच्छति।                                   =              कोऽपि

(iv) विषादः कदापि न कर्तव्यः।                                       =              कदा + अपि

(v) वृद्धानां सेवां कृत्वां प्रसन्नो भव।                                  =              सेवाम् + कृत्वा

(vi) वयं सर्वे सुखम् + इच्छामः।                                        =              सुखमिच्छामः


5. रेखांकितपदानां समस्तपदं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत-

(i) दुःखानां विनाशः कथं भवति इति ज्ञातव्यम्।

  दुःखविनाशः कथं भवति इति ज्ञातव्यम्।

(ii) नीतिषु लाभालाभौ न विचारणीयौ।

  नीतिषु लाभ-अलाभौ न विचारणीयौ।

(iii) दुःखानाम् अभावः मनसः प्रसन्नतायै आवश्यकः।

   दुःखाभावः मनसः प्रसन्नतायै आवश्यकः।


6. उचितप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

(i) दुःखानां विनाशस्य उपायं ज्ञा + तव्यत्।                                    =              ज्ञातव्यम्

(ii) प्रियजनस्य रुग्णता दुःखदायिका।                                            =              रुग्ण + तल्

(iii) रोगं दृष्ट्वा केवलं हाहाकारं न कर्तव्यम्।                                  =              दृश् + क्त्वा

(iv) त्वं प्रतिकूलपरिस्थितीं वि+रुथ्+ल्यप् विजयं प्राप्नुहि।             =               विरुध्य


7. प्रदत्तवाक्यानां वाच्यपरिवर्तनं कृत्वा लिखत-

(i) गीतायाः श्रीकृष्ण: अर्जुनं प्रति कथयति।

उत्तर: गीतायां श्रीकृष्णेन अर्जुनः कथ्यते।

(ii) वयं सर्वे सुखम् इच्छामः।

उत्तर: अस्माभिः सर्वैः सुखम् इष्यते।

(iii) विनम्रजनः पितरं सेवते।

उत्तर: विनम्रजनेन पिता सेव्यते।

(iv) पुत्रेण औषधिना पितुः रोगविनाशस्य प्रयत्नं क्रियते।

उत्तर: पुत्रः औषधिना पितुः रोगविनाशं करोति।

Scroll to Top